Shloka
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥१०-२१॥
Shloka Pad
आदित्यानाम् अहम् विष्णुः ज्योतिषाम् रविः अंशुमान्।मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहम् शशी॥१०-२१॥
