Mantra with Swara
अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः। स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं॑ सुजात ॥५॥
अस॑न् । इत् । त्वे इति॑ । आ॒ऽहव॑नानि । भूरि॑ । भुवः॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः । स्तु॒तः । चि॒त् । अ॒ग्ने॒ । शृ॒ण्वि॒षे॒ । गृ॒णा॒नः । स्व॒यम् । व॒र्ध॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥
Mantra without Swara
असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः। स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥
असन्। इत्। त्वे इति। आऽहवनानि। भूरि। भुवः। विश्वेभिः। सुऽमनाः। अनीकैः। स्तुतः। चित्। अग्ने। शृण्विषे। गृणानः। स्वयम्। वर्धस्व। तन्वम्। सुऽजात ॥५॥
Ashtak » 5
Adhyay » 2
Varga » 11
Mantra » 5
