Mantra with Swara
कया॑ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा॑नः। क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो व॒न्तारो॑ दु॒ष्टर॑स्य सा॒धोः ॥३॥
कया॑ । नः॒ । अ॒ग्ने॒ । वि । व॒सः॒ । सु॒ऽवृ॒क्तिम् । काम् । ऊँ॒ इति॑ । स्व॒धाम् । ऋ॒ण॒वः॒ । श॒स्यमा॑नः । क॒दा । भ॒वे॒म॒ । पत॑यः । सु॒ऽद॒त्र॒ । रा॒यः । व॒न्तारः॑ । दु॒स्तर॑स्य । सा॒धोः ॥
Mantra without Swara
कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः। कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥
कया। नः। अग्ने। वि। वसः। सुऽवृक्तिम्। काम्। ऊँ इति। स्वधाम्। ऋणवः। शस्यमानः। कदा। भवेम। पतयः। सुऽदत्र। रायः। वन्तारः। दुस्तरस्य। साधोः ॥३॥
Ashtak » 5
Adhyay » 2
Varga » 11
Mantra » 3
