Mantra 1
प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः। यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भिः॑ ॥१॥
प्र । अ॒ग्नये॑ । त॒वसे॑ । भ॒र॒ध्व॒म् । गिर॑म् । दि॒वः । अ॒र॒तये॑ । पृ॒थि॒व्याः । यः । विश्वे॑षाम् । अ॒मृता॑नाम् । उ॒पऽस्थे॑ । वै॒श्वा॒न॒रः । व॒वृ॒धे । जा॒गृ॒वत्ऽभिः॑ ॥
Mantra 2
पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिन्धू॑नां वृष॒भः स्तिया॑नाम्। स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥२॥
पृ॒ष्टः । दि॒वि । धायि॑ । अ॒ग्निः । पृ॒थि॒व्याम् । ने॒ता । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् । सः । मानु॑षीः । अ॒भि । विशः॑ । वि । भा॒ति॒ । वै॒श्वा॒न॒रः । व॒वृ॒धा॒नः । वरे॑ण ॥
Mantra 3
त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि। वैश्वा॑नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥३॥
त्वत् । भि॒या । विशः॑ । आ॒य॒न् । असि॑क्नीः । अ॒स॒म॒नाः । जह॑तीः । भोज॑नानि । वैश्वा॑नर । पू॒रवे॑ । शोशु॑चानः । पुरः॑ । यत् । अ॒ग्ने॒ । द॒रय॑न् । अदी॑देः ॥
Mantra 4
तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचन्त। त्वं भा॒सा रोद॑सी॒ आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥४॥
तव॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वी । उ॒त । द्यौः । वैश्वा॑नर । व्र॒तम् । अ॒ग्ने॒ । स॒च॒न्त॒ । त्वम् । भा॒सा । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ । अज॑स्रेण । शो॒चिषा॑ । शोशु॑चानः ॥
Mantra 5
त्वाम॑ग्ने ह॒रितो॑ वावशा॒ना गिरः॑ सचन्ते॒ धुन॑यो घृ॒ताचीः॑। पतिं॑ कृष्टी॒नां र॒थ्यं॑ रयी॒णां वै॑श्वान॒रमु॒षसां॑ के॒तुमह्ना॑म् ॥५॥
त्वाम् । अ॒ग्ने॒ । ह॒रितः॑ । वा॒व॒शा॒नाः । गिरः॑ । स॒च॒न्ते॒ । धुन॑यः । घृ॒ताचीः॑ । पति॑म् । कृ॒ष्टी॒नाम् । र॒थ्य॑म् । र॒यी॒णाम् । वै॒श्वा॒न॒रम् । उ॒षसा॑म् । के॒तुम् । अह्ना॑म् ॥
Mantra 6
त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षन्त॑। त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥६॥
त्वे इति॑ । अ॒सु॒र्य॑म् । वस॑वः । नि । ऋ॒ण्व॒न् । क्रतु॑म् । हि । ते॒ । मि॒त्र॒ऽम॒हः॒ । जु॒षन्त॑ । त्वम् । दस्यू॑न् । ओक॑सः । अ॒ग्ने॒ । आ॒जः॒ । उ॒रु । ज्योतिः॑ । ज॒नय॑न् । आर्या॑य ॥
Mantra 7
स जाय॑मानः पर॒मे व्यो॑मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः। त्वं भुव॑ना ज॒नय॑न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥७॥
सः । जाय॑मानः । प॒र॒मे । विऽओ॑मन् । वा॒युः । न । पाथः॑ । परि॑ । पा॒सि॒ । स॒द्यः । त्वम् । भुव॑ना । ज॒नय॑न् । अ॒भि । ऋ॒न् । अप॑त्याय । जा॒त॒ऽवे॒दः॒ । द॒श॒स्यन् ॥
Mantra 8
ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा॑नर द्यु॒मतीं॑ जातवेदः। यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो॑ दा॒शुषे॒ मर्त्या॑य ॥८॥
ताम् । अ॒ग्ने॒ । अ॒स्मे इति॑ । इष॑म् । आ । ई॒र॒य॒स्व॒ । वैश्वा॑नर । द्यु॒ऽमती॑म् । जा॒त॒ऽवे॒दः॒ । यया॑ । राधः॑ । पिन्व॑सि । वि॒श्व॒ऽवा॒र॒ । पृ॒थु । श्रवः॑ । दा॒शुषे॑ । मर्त्या॑य ॥
Mantra 9
तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व। वैश्वा॑नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः॑ ॥९॥
तम् । नः॒ । अ॒ग्ने॒ । म॒घव॑त्ऽभ्यः । पु॒रु॒ऽक्षुम् । र॒यिम् । नि । वाज॑म् । श्रुत्य॑म् । यु॒व॒स्व॒ । वैश्वा॑नर । महि॑ । नः॒ । शर्म॑ । य॒च्छ॒ । रु॒द्रेभिः॑ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ॥