Mantra with Swara
श॒तं ते॑ शिप्रिन्नू॒तयः॑ सु॒दासे॑ स॒हस्रं॒ शंसा॑ उ॒त रा॒तिर॑स्तु। ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं॑ च धेहि ॥३॥
श॒तम् । ते॒ । शि॒प्रि॒न् । ऊ॒तयः॑ । सु॒ऽदासे॑ । स॒हस्र॑म् । शंसाः॑ । उ॒त । रा॒तिः । अ॒स्तु॒ । ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य्स् । अ॒स्मे इति॑ । द्यु॒म्नम् । अधि॑ । रत्न॑म् । च॒ । धे॒हि॒ ॥
Mantra without Swara
शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु। जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि ॥
शतम्। ते। शिप्रिन्। ऊतयः। सुऽदासे। सहस्रम्। शंसाः। उत। रातिः। अस्तु। जहि। वधः। वनुषः। मर्त्यस्य। अस्मे इति। द्युम्नम्। अधि। रत्नम्। च। धेहि ॥३॥
Ashtak » 5
Adhyay » 3
Varga » 9
Mantra » 3
