Mantra with Swara
अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑। क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥४॥
अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । अ॒ध्व॒रस्य॑ । अ॒ग्निः । विश्व॑स्य । ह॒विषः॑ । कृ॒तस्य॑ । क्रतु॑म् । हि । अ॒स्य॒ । वस॑वः । जु॒षन्त॑ । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥
Mantra without Swara
अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य। क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥
अग्निः। ईशे। बृहतः। अध्वरस्य। अग्निः। विश्वस्य। हविषः। कृतस्य। क्रतुम्। हि। अस्य। वसवः। जुषन्त। अथ। देवाः। दधिरे। हव्यऽवाहम् ॥४॥
Ashtak » 5
Adhyay » 2
Varga » 14
Mantra » 4
