Mantra with Swara
स इत्तन्तुं॒ स वि जा॑ना॒त्योतुं॒ स वक्त्वा॑न्यृतु॒था व॑दाति। य ईं॒ चिके॑तद॒मृत॑स्य गो॒पा अ॒वश्चर॑न्प॒रो अ॒न्येन॒ पश्य॑न् ॥३॥
सः । इत् । तन्तु॑म् । सः । वि । जा॒ना॒ति॒ । ओतु॑म् । सः । वक्त्वा॑नि । ऋ॒तु॒ऽथा । व॒दा॒ति॒ । यः । ई॒म् । चिके॑तत् । अ॒मृत॑स्य । गो॒पाः । अ॒वः । चर॑न् । प॒रः । अ॒न्येन॑ । पश्य॑न् ॥
Mantra without Swara
स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति। य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन् ॥
सः। इत्। तन्तुम्। सः। वि। जानाति। ओतुम्। सः। वक्त्वानि। ऋतुऽथा। वदाति। यः। ईम्। चिकेतत्। अमृतस्य। गोपाः। अवः। चरन्। परः। अन्येन। पश्यन् ॥३॥
Ashtak » 4
Adhyay » 5
Varga » 11
Mantra » 3
