Mantra with Swara
अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि॑व्रते। राज॑न्ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेतः॑ सिञ्चतं॒ यन्मनु॑र्हितम् ॥२॥
अस॑श्चन्ती॒ इति॑ । भूरि॑धारे॒ इति॒ भूरि॑ऽधारे । पय॑स्वती॒ इति॑ । घृ॒तम् । दु॒हा॒ते॒ इति॑ । सु॒ऽकृते॑ । शुचि॑व्रते॒ इति॒ शुचि॑ऽव्रते । राज॑न्ती॒ इति॑ । अ॒स्य । भुव॑नस्य । रो॒द॒सी॒ इति॑ । अ॒स्मे इति॑ । रेतः॑ । सि॒ञ्च॒त॒म् । यत् । मनुः॑ऽहितम् ॥
Mantra without Swara
असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते। राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥
असश्चन्ती इति। भूरिधारे इति भूरिऽधारे। पयस्वती इति। घृतम्। दुहाते इति। सुऽकृते। शुचिव्रते इति शुचिऽव्रते। राजन्ती इति। अस्य। भुवनस्य। रोदसी इति। अस्मे इति। रेतः। सिञ्चतम्। यत्। मनुःऽहितम् ॥२॥
Ashtak » 5
Adhyay » 1
Varga » 14
Mantra » 2
