Mantra with Swara
स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः। यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥२॥
सः । श्वि॒ता॒नः । ता॒न्य॒तुः । रो॒च॒न॒ऽस्थाः । अ॒जरे॑भिः । नान॑दत्ऽभिः । यवि॑ष्ठः । यः । पा॒व॒कः । पु॒रु॒ऽतमः॑ । पु॒रूणि॑ । पृ॒थूनि॑ । अ॒ग्निः । अ॒नु॒ऽयाति॑ । भर्व॑न् ॥
Mantra without Swara
स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः। यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥
सः। श्वितानः। तन्यतुः। रोचनऽस्थाः। अजरेभिः। नानदत्ऽभिः। यविष्ठः। यः। पावकः। पुरुऽतमः। पुरूणि। पृथूनि। अग्निः। अनुऽयाति। भर्वन् ॥२॥
Ashtak » 4
Adhyay » 5
Varga » 8
Mantra » 2
