Mantra 1
त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥१॥
त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ । त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥
Mantra 2
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः। गामश्वं॑ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥२॥
सः । त्वम् । नः॒ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । धृ॒ष्णु॒ऽया । म॒हः । स्त॒वा॒नः । अ॒द्रि॒ऽवः॒ । गाम् । अश्व॑म् । र॒थ्य॑म् । इ॒न्द्र॒ । सम् । कि॒र॒ । स॒त्रा । वाज॑म् । न । जि॒ग्युषे॑ ॥
Mantra 3
यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू॑महे व॒यम्। सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥३॥
यः । स॒त्रा॒ऽहा । विऽच॑र्षणिः । इन्द्र॑म् । तम् । हू॒म॒हे॒ । व॒यम् । सह॑स्रऽमुष्क । तुवि॑ऽनृम्ण । सत्ऽप॑ते । भव॑ । स॒मत्ऽसु॑ । नः॒ । वृ॒धे ॥
Mantra 4
बाध॑से॒ जना॑न्वृष॒भेव॑ म॒न्युना॒ घृषौ॑ मी॒ळ्ह ऋ॑चीषम। अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये॑ ॥४॥
बाध॑से । जना॑न् । वृ॒ष॒भाऽइ॑व । म॒न्युना॑ । घृषौ॑ । मी॒ळ्हे । ऋ॒ची॒ष॒म॒ । अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒ऽध॒ने । त॒नूषु॑ । अ॒प्ऽसु । सूर्ये॑ ॥
Mantra 5
इन्द्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑। येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥५॥
इन्द्र॑ । ज्येष्ठ॑म् । नः॒ । आ । भ॒र॒ । ओजि॑ष्ठम् । पपु॑रि । श्रवः॑ । येन॑ । इ॒मे इति॑ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । रोद॑सी॒ इति॑ । आ । उ॒भे इति॑ । सु॒शि॒प्र॒ । प्राः ॥
Mantra 6
त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज॑न्दे॒वेषु॑ हूमहे। विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न्त्सु॒षहा॑न्कृधि ॥६॥
त्वाम् । उ॒ग्रम् । अव॑से । च॒र्ष॒णि॒ऽसह॑म् । राज॑न् । दे॒वेषु॑ । हू॒म॒हे॒ । विश्वा॑ । सु । नः॒ । वि॒थु॒रा । पि॒ब्द॒ना । व॒सो॒ इति॑ । अ॒मित्रा॑न् । सु॒ऽसहा॑न् । कृ॒धि॒ ॥
Mantra 7
यदि॑न्द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑। यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥७॥
यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ । ओजः॑ । नृ॒म्णम् । च॒ । कृ॒ष्टिषु॑ । यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । द्यु॒म्नम् । आ । भ॒र॒ । स॒त्रा । विश्वा॑नि । पौंस्या॑ ॥
Mantra 8
यद्वा॑ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य॑म्। अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥८॥
यत् । वा॒ । तृ॒क्षौ । म॒घ॒ऽव॒न् । द्रु॒ह्यौ । आ । जने॑ । यत् । पू॒रौ । कत् । च॒ । वृष्ण्य॑म् । अ॒स्मभ्य॑म् । तत् । रि॒री॒हि॒ । सम् । नृ॒ऽसह्ये॑ । अ॒मित्रा॑न् । पृ॒त्ऽसु । तु॒र्वणे॑ ॥
Mantra 9
इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत्। छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥९॥
इन्द्र॑ । त्रि॒ऽधातु॑ । श॒र॒णम् । त्रि॒ऽवरू॑थम् । स्व॒स्ति॒ऽमत् । छ॒र्दिः । य॒च्छ॒ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ । य॒वय॑ । दि॒द्युम् । ए॒भ्यः॒ ॥
Mantra 10
ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या। अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ॥१०॥
ये । ग॒व्य॒ता । मन॑सा । शत्रु॑म् । आ॒ऽद॒भुः । अ॒भि॒ऽप्र॒घ्नन्ति॑ । धृ॒ष्णु॒ऽया । अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त॒नू॒ऽपाः । अन्त॑मः । भ॒व॒ ॥
Mantra 11
अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि। यद॒न्तरि॑क्षे प॒तय॑न्ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥११॥
अध॑ । स्म॒ । नः॒ । वृ॒धे । भ॒व॒ । इन्द्र॑ । न । अ॒यम् । अ॒व॒ । यु॒धि । यत् । अ॒न्तरि॑क्षे । प॒तय॑न्ति । प॒र्णिनः॑ । दि॒द्यवः॑ । ति॒ग्मऽमू॑र्धानः ॥
Mantra 12
यत्र॒ शूरा॑सस्त॒न्वो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम्। अध॑ स्मा यच्छ त॒न्वे॒३॒॑ तने॑ च छ॒र्दिर॒चित्तं॑ या॒वय॒ द्वेषः॑ ॥१२॥
यत्र॑ । शूरा॑सः । त॒न्वः॑ । वि॒ऽत॒न्व॒ते । प्रि॒या । शर्म॑ । पि॒तॄ॒णाम् । अध॑ । स्म॒ । य॒च्छ॒ । त॒न्वे॑ । तने॑ । च॒ । छ॒र्धिः । अ॒चित्त॑म् । य॒वय॑ । द्वेषः॑ ॥
Mantra 13
यदि॑न्द्र॒ सर्गे॒ अर्व॑तश्चो॒दया॑से महाध॒ने। अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँइ॑व श्रवस्य॒तः ॥१३॥
यत् । इ॒न्द्र॒ । सर्गे॑ । अर्व॑तः । चो॒दया॑से । म॒हा॒ऽध॒ने । अ॒स॒म॒ने । अध्व॑नि । वृ॒जि॒ने । प॒थि । श्ये॒नान्ऽइ॑व । श्र॒व॒स्य॒तः ॥
Mantra 14
सिन्धूँ॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑। आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥१४॥
सिन्धू॑न्ऽइव । प्र॒व॒णे । आ॒शु॒ऽया । य॒तः । यदि॑ । क्लोश॑म् । अनु॑ । स्वनि॑ । आ । ये । वयः॑ । न । वर्वृ॑त॒ति । आमि॑षि । गृ॒भी॒ताः । बा॒ह्वोः । गवि॑ ॥