Mantra with Swara
इन्द्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये॑ चका॒नाः। म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥१॥
इन्द्र॑म् । वः॒ । नरः॑ । स॒ख्याय॑ । से॒पुः॒ । म॒हः । यन्तः॑ । सु॒ऽम॒तये॑ । च॒का॒नाः । म॒हः । हि । दा॒ता । वज्र॑ऽहस्तः । अस्ति॑ । म॒हाम् । ऊँ॒ इति॑ । र॒ण्वम् । अव॑से । य॒ज॒ध्व॒म् ॥
Mantra without Swara
इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः। महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम् ॥
इन्द्रम्। वः। नरः। सख्याय। सेपुः। महः। यन्तः। सुऽमतये। चकानाः। महः। हि। दाता। वज्रऽहस्तः। अस्ति। महाम्। ऊँ इति। रण्वम्। अवसे। यजध्वम् ॥१॥
Ashtak » 4
Adhyay » 7
Varga » 1
Mantra » 1
