Mantra 1
सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे। यद्वा॑ यु॒क्ताभ्यां॑ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ यासि॑ ॥१॥
सु॒ते । इत् । त्वम् । निऽमि॑श्लः । इ॒न्द्र॒ । सोमे॑ । स्तोमे॑ । ब्रह्म॑णि । श॒स्यमा॑ने । उ॒क्थे । यत् । वा॒ । यु॒क्ताभ्या॑म् । म॒घ॒ऽव॒न् । हरि॑ऽभ्याम् । बिभ्र॑त् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । यासि॑ ॥
Mantra 2
यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ। यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दर॑न्धयः॒ शर्ध॑त इन्द्र॒ दस्यू॑न् ॥२॥
यत् । वा॒ । दि॒वि । पार्ये॑ । सुस्वि॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । व॑सि । शूर॑ऽसातौ । यत् । वा॒ । दक्ष॑स्य । बि॒भ्युषः॑ । अबि॑भ्यत् । अर॑न्धयः । शर्ध॑तः । इ॒न्द्र॒ । दस्यू॑न् ॥
Mantra 3
पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती। कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥३॥
पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । प्र॒ऽने॒नीः । उ॒ग्रः । ज॒रि॒तार॑म् । ऊ॒ती । कर्ता॑ । वी॒राय॑ । सुस्व॑ये । ऊ॒म्ँम् इति॑ । लो॒कम् । दाता॑ । वसु॑ । स्तु॒व॒ते । की॒रये॑ । चि॒त् ॥
Mantra 4
गन्तेया॑न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं॑ प॒पिः सोमं॑ द॒दिर्गाः। कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥४॥
गन्ता॑ । इय॑न्ति । सव॑ना । हरि॑ऽभ्याम् । ब॒भ्रिः । वज्र॑म् । प॒पिः । सोम॑म् । द॒दिः । गाः । कर्ता॑ । वी॒रम् । नर्य॑म् । सर्व॑ऽवीरम् । श्रोता॑ । हव॑म् । गृ॒ण॒तः । स्तोम॑ऽवाहाः ॥
Mantra 5
अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः। सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥५॥
अस्मै॑ । व॒यम् । यत् । व॒वान॑ । तत् । वि॒वि॒ष्मः॒ । इन्द्रा॑य । यः । नः॒ । प्र॒ऽदिवः । अपः॑ । क॒रिति॑ कः । सु॒ते । सोमे॑ । स्तु॒मसि॑ । शंस॑त् । उ॒क्था । इन्द्रा॑य । ब्रह्म॑ । वर्ध॑नम् । यथा॑ । अस॑त् ॥
Mantra 6
ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इन्द्र म॒तिभि॑र्विविष्मः। सु॒ते सोमे॑ सुतपाः॒ शंत॑मानि॒ रान्द्र्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ॥६॥
ब्रह्मा॑णि । हि । च॒कृ॒षे । वर्ध॑नानि । ताव॑त् । ते॒ । इ॒न्द्र॒ । म॒तिऽभिः॑ । वि॒वि॒ष्मः॒ । सु॒ते । सोमे॑ । सु॒त॒ऽपाः॒ । शम्ऽत॑मानि । रान्द्र्या॑ । क्रि॒या॒स्म॒ । वक्ष॑णानि । य॒ज्ञैः ॥
Mantra 7
स नो॑ बोधि पुरो॒ळाशं॒ ररा॑णः॒ पिबा॒ तु सोमं॒ गोऋ॑जीकमिन्द्र। एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ॥७॥
सः । नः॒ । बो॒धि॒ । पु॒रो॒ळाश॑म् । ररा॑णः । पि॒ब॒ । तु । सोम॑म् । गोऽऋ॑जीकम् । इ॒न्द्र॒ । आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । उ॒रुम् । कृ॒धि॒ । त्वा॒ऽय॒तः । ऊँ॒ इति॑ । लो॒कम् ॥
Mantra 8
स म॑न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु। प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इन्द्र यम्याः ॥८॥
सः । म॒न्द॒स्व॒ । हि । अनु॑ । जोष॑म् । उ॒ग्र॒ । प्र । त्वा॒ । य॒ज्ञासः॑ । इ॒मे । अ॒श्नु॒व॒न्तु॒ । प्र । इ॒मे । हवा॑सः । पु॒रु॒ऽहू॒तम् । अ॒स्मे इति॑ । आ । त्वा॒ । इ॒यम् । धीः । अव॑से । इ॒न्द्र॒ । य॒म्याः॒ ॥
Mantra 9
तं वः॑ सखायः॒ सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म्। कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ॥९॥
तम् । वः॒ । स॒खा॒यः॒ । सम् । यथा॑ । सु॒तेषु॑ । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् । कु॒वित् । तस्मै॑ । अस॑ति । नः॒ । भरा॑य । न । सुस्वि॑म् । इन्द्रः॑ । अव॑से । मृ॒धा॒ति॒ ॥
Mantra 10
ए॒वेदिन्द्रः॑ सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोनः॑। अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिन्द्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥१०॥
ए॒व । इत् । इन्द्रः॑ । सु॒ते । अ॒स्ता॒वि॒ । सोमे॑ । भ॒रत्ऽवा॑जेषु । क्षय॑त् । इत् । म॒घोनः॑ । अस॑त् । यथा॑ । ज॒रि॒त्रे । उ॒त । सू॒रिः । इन्द्रः॑ । रा॒यः । वि॒श्वऽवा॑रस्य । दा॒ता ॥