Mantra 1
म॒हाँ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः। अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥१॥
म॒हान् । इन्द्रः॑ । नृ॒ऽवत् । आ । च॒र्ष॒णि॒ऽप्राः । उ॒त । द्वि॒ऽबर्हाः॑ । अ॒मि॒नः । सहः॑ऽभिः । अ॒स्म॒द्र्य॑क् । व॒वृ॒धे॒ । वी॒र्या॑य । उ॒रुः । पृ॒थुः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥
Mantra 2
इन्द्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम्। अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥२॥
इन्द्र॑म् । ए॒व । धि॒षणा॑ । सा॒तये॑ । धा॒त् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् । अषा॑ळ्हेन । शव॑सा । शू॒सु॒ऽवांस॑म् । स॒द्यः । चि॒त् । यः । व॒वृ॒धे । असा॑मि ॥
Mantra 3
पृ॒थू क॒रस्ना॑ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि। यू॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इ॑न्द्रा॒भ्या व॑वृत्स्वा॒जौ ॥
पृ॒थू इति॑ । क॒रस्ना॑ । ब॒हु॒ला । गभ॑स्ती॒ इति॑ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि । यू॒थाऽइ॑व । प॒श्वः । प॒शु॒ऽपाः । दमू॑नाः । अ॒स्मान् । इ॒न्द्र॒ । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒जौ ॥
Mantra 4
तं व॒ इन्द्रं॑ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा॑ज॒यन्तो॑ हुवेम। यथा॑ चि॒त्पूर्वे॑ जरि॒तार॑ आ॒सुरने॑द्या अनव॒द्या अरि॑ष्टाः ॥४॥
तम् । वः॒ । इन्द्र॑म् । च॒तिन॑म् । अ॒स्य॒ । शा॒कैः । इ॒ह । नू॒नम् । वा॒ज॒ऽयन्तः॑ । हु॒वे॒म॒ । यथा॑ । चि॒त् । पूर्वे॑ । ज॒रि॒तारः॑ । आ॒सुः । अने॑द्याः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥
Mantra 5
धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः। सं ज॑ग्मिरे प॒थ्या॒३॒॑ रायो॑ अस्मिन्त्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ॥५॥
धृ॒तऽव्र॑तः । ध॒न॒ऽदाः । सोम॑ऽवृद्धः । सः । हि । वा॒मस्य॑ । वसु॑नः । पु॒रु॒ऽक्षुः । सम् । जि॒ग्मि॒रे॒ । प॒थ्याः॑ । रायः॑ । अ॒स्मि॒न् । स॒मु॒द्रे । न । सिन्ध॑वः । याद॑मानाः ॥
Mantra 6
शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो॑ अभिभूत उ॒ग्रम्। विश्वा॑ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं॑ दा हरिवो माद॒यध्यै॑ ॥६॥
शवि॑ष्ठम् । नः॒ । आ । भ॒र॒ । शू॒र॒ । शवः॑ । ओजि॑ष्ठम् । ओजः॑ । अ॒भि॒ऽभू॒ते॒ । उ॒ग्रम् । विश्वा॑ । द्यु॒म्ना । वृष्ण्या॑ । मानु॑षाणाम् । अ॒स्म्भ्य॑म् । दाः॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥
Mantra 7
यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस॑म्। येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं॑सी॒महि॑ जिगी॒वांस॒स्त्वोताः॑ ॥७॥
यः । ते॒ । मदः॑ । पृ॒त॒ना॒षाट् । अमृ॑ध्रः । इन्द्र॑ । तम् । नः॒ । आ । भ॒र॒ । शू॒शु॒ऽवांस॑म् । येन॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ । मं॒सी॒महि॑ । जि॒गी॒वांसः॑ । त्वाऽऊ॑ताः ॥
Mantra 8
आ नो॑ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं॑ शूशु॒वासं॑ सु॒दक्ष॑म्। येन॒ वंसा॑म॒ पृत॑नासु॒ शत्रू॒न्तवो॒तिभि॑रु॒त जा॒मीँरजा॑मीन् ॥८॥
आ । नः॒ । भ॒र॒ । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ । ध॒न॒ऽस्पृत॑म् । शू॒शु॒ऽवांस॑म् । सु॒ऽदक्ष॑म् । येन॑ । वंसा॑म । पृत॑नासु । शत्रू॑न् । तव॑ । ऊ॒तिऽभिः॑ । उ॒त । जा॒मीन् । अजा॑मीन् ॥
Mantra 9
आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त्। आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥९॥
आ । ते॒ । शुष्मः॑ । वृ॒ष॒भः । ए॒तु॒ । प॒श्चात् । आ । उ॒त्त॒रात् । अ॒ध॒रात् । आ । पु॒रस्ता॑त् । आ । वि॒श्वतः॑ । अ॒भि । सम् । ए॒तु॒ । अ॒र्वाङ् । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥
Mantra 10
नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं॑सी॒महि॑ वा॒मं श्रोम॑तेभिः। ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त॑म् ॥
नृ॒ऽवत् । ते॒ । इ॒न्द्र॒ । नृऽत॑माभिः । ऊ॒ती । वं॒सी॒महि॑ । वा॒मम् । श्रोम॑तेभिः । ईक्षे॑ । हि । वस्वः॑ । उ॒भय॑स्य । रा॒ज॒न् । धाः । रत्न॑म् । महि॑ । स्थू॒रम् । बृ॒हन्त॑म् ॥
Mantra 11
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म्। वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥११॥
म॒रुत्व॑न्तम् । वृ॒ष॒भम् । व॒वृ॒धा॒नम् । अक॑वऽअरिम् । दि॒व्यम् । शा॒सम् । इन्द्र॑म् । वि॒श्व॒ऽसह॑म् । अव॑से । नूत॑नाय । उ॒ग्रम् । स॒हः॒ऽदाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥
Mantra 12
जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रन्धया॒ येष्वस्मि॑। अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥१२॥
जन॑म् । व॒ज्रि॒न् । महि॑ । चि॒त् । मन्य॑मानम् । ए॒भ्यः । नृऽभ्यः॑ । र॒न्ध॒य॒ । येषु॑ । अस्मि॑ । अध॑ । हि । त्वा॒ । पृ॒थि॒व्याम् । शूर॑ऽसातौ । हवा॑महे । तन॑ये । गोषु॑ । अ॒प्ऽसु ॥
Mantra 13
व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः॑शत्रो॒रुत्त॑र॒ इत्स्या॑म। घ्नन्तो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोताः॑ ॥१३॥
व॒यम् । ते॒ । ए॒भिः । पु॒रु॒ऽहू॒त॒ । स॒ख्यैः । शत्रोः॑ऽशत्रोः । उत्ऽत॑रे । इत् । स्या॒म॒ । घ्नन्तः॑ । वृ॒त्राणि॑ । उ॒भया॑नि । शू॒र॒ । रा॒या । म॒दे॒म॒ । बृ॒ह॒ता । त्वाऽऊ॑ताः ॥