Mantra with Swara
अ॒ग्निर्होता॒ दास्व॑तः॒ क्षय॑स्य वृ॒क्तब॑र्हिषः। यं य॒ज्ञास॒श्चर॑न्ति॒ यं सं वाजा॑सः श्रव॒स्यवः॑ ॥२॥
अ॒ग्निः । होता॑ । दास्व॑तः । क्षय॑स्य । वृ॒क्तऽब॑र्हिषः । सम् । य॒ज्ञासः॑ । चर॑न्ति । यम् । सम् । वाजा॑सः । श्र॒व॒स्यवः॑ ॥
Mantra without Swara
अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः। यं यज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः ॥
अग्निः। होता। दास्वतः। क्षयस्य। वृक्तऽबर्हिषः। सम्। यज्ञासः। चरन्ति। यम्। सम्। वाजासः। श्रवस्यवः ॥२॥
Ashtak » 4
Adhyay » 1
Varga » 1
Mantra » 2
