Mantra with Swara
इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णम्। आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वह॑न्ता ॥४॥
इ॒दम् । हि । वा॒म् । प्र॒ऽदिवि॑ । स्थान॑म् । ओकः॑ । इ॒मे । गृ॒हाः । अ॒श्वि॒ना॒ । इ॒दम् । दु॑रो॒णम् । आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । अ॒त्ऽभ्यः । या॒त॒म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता ॥
Mantra without Swara
इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम्। आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्ता ॥
इदम्। हि। वाम्। प्रऽदिवि। स्थानम्। ओकः। इमे। गृहाः। अश्विना। इदम्। दुरोणम्। आ। नः। दिवः। बृहतः। पर्वतात्। आ। अत्ऽभ्यः। यातम्। इषम्। ऊर्जम्। वहन्ता ॥४॥
Ashtak » 4
Adhyay » 4
Varga » 17
Mantra » 4
