Mantra 1
कूष्ठो॑ देवावश्विना॒द्या दि॒वो म॑नावसू। तच्छ्र॑वथो वृषण्वसू॒ अत्रि॑र्वा॒मा वि॑वासति ॥१॥
कूऽस्थः॑ । दे॒वौ॒ । अ॒श्वि॒ना॒ । अ॒द्य । दि॒वः । म॒ना॒व॒सू॒ इति॑ । तत् । श्र॒व॒थः॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । अत्रिः॑ । वा॒म् । आ । वि॒वा॒स॒ति॒ ॥
Mantra 2
कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या। कस्मि॒न्ना य॑तथो॒ जने॒ को वां॑ न॒दीनां॒ सचा॑ ॥२॥
कुह॑ । त्या । कुह॑ । नु । श्रु॒ता । दि॒वि । दे॒वा । नास॑त्या । कस्मि॑न् । आ । य॒त॒थः॒ । जने॑ । कः । वा॒म् । न॒दीना॑म् । सचा॑ ॥
Mantra 3
कं या॑थः॒ कं ह॑ गच्छथः॒ कमच्छा॑ युञ्जाथे॒ रथ॑म्। कस्य॒ ब्रह्मा॑णि रण्यथो व॒यं वा॑मुश्मसी॒ष्टये॑ ॥३॥
कम् । या॒थः॒ । कम् । ह॒ । ग॒च्छ॒थः॒ । कम् । अच्छ॑ । यु॒ञ्जा॒थे॒ इति॑ । रथ॑म् । कस्य॑ । ब्रह्मा॑णि । र॒ण्य॒थः॒ । व॒यम् । वा॒म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ ॥
Mantra 4
पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः। यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे ॥४॥
पौ॒रम् । चि॒त् । हि । उ॒द॒ऽप्रुत॑म् । पौर॑ । पौ॒राय॑ । जिन्व॑थः । यत् । ई॒म् । गृ॒भी॒तऽता॑तये । सिं॒हम्ऽइ॑व । द्रु॒हः । प॒दे ॥
Mantra 5
प्र च्यवा॑नाज्जुजु॒रुषो॑ व॒व्रिमत्कं॒ न मु॑ञ्चथः। युवा॒ यदी॑ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ॥५॥
प्र । च्यवा॑नात् । जु॒जु॒रुषः॑ । व॒व्रिम् । अत्क॑म् । न । मु॒ञ्च॒थः॒ । युवा॑ । यदि॑ । कृ॒थः । पुनः॑ । आ । काम॑म् । ऋ॒ण्वे॒ । व॒ध्वः॑ ॥
Mantra 6
अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये। नू श्रु॒तं म॒ आ ग॑त॒मवो॑भिर्वाजिनीवसू ॥६॥
अस्ति॑ । हि । वा॒म् । इ॒ह । स्तो॒ता । स्मसि॑ । वा॒म् । स॒म्ऽदृशि॑ । श्रि॒ये । नु । श्रु॒तम् । मे॒ । आ । ग॒त॒म् । अवः॑ऽभिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥
Mantra 7
को वा॑म॒द्य पु॑रू॒णामा व॑व्ने॒ मर्त्या॑नाम्। को विप्रो॑ विप्रवाहसा॒ को य॒ज्ञैर्वा॑जिनीवसू ॥७॥
कः । वा॒म् । अ॒द्य । पु॒रू॒णाम् । आ । व॒व्ने॒ । मर्त्या॑नाम् । कः । विप्रः॑ । वि॒प्र॒ऽवा॒ह॒सा॒ । कः । य॒ज्ञैः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥
Mantra 8
आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना। पु॒रू चि॑दस्म॒युस्ति॒र आ॑ङ्गू॒षो मर्त्ये॒ष्वा ॥८॥
आ । वा॒म् । रथः॑ । रथा॑नाम् । येष्ठः॑ । या॒तु॒ । अ॒श्वि॒ना॒ । पु॒रु । चि॒त् । अ॒स्म॒ऽयुः । ति॒रः । आ॒ङ्गू॒षः । मर्त्ये॑षु । आ ॥
Mantra 9
शमू॒ षु वां॑ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः। अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतम् ॥९॥
शम् । ऊँ॒ इति॑ । सु । वा॒म् । म॒धु॒ऽयु॒वा॒ । अ॒स्माक॑म् । अ॒स्तु॒ । च॒र्कृ॒तिः । अ॒र्वा॒ची॒ना । वि॒ऽचे॒त॒सा॒ । विऽभिः॑ । श्ये॒नाऽइ॑व । दी॒य॒त॒म् ॥
Mantra 10
अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म्। वस्वी॑रू॒ षु वां॒ भुजः॑ पृ॒ञ्चन्ति॒ सु वां॒ पृचः॑ ॥१०॥
अश्वि॑ना । यत् । ह॒ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् । वस्वीः॑ । ऊँ॒ इति॑ । सु । वा॒म् । भुजः॑ । पृ॒ञ्चन्ति॑ । सु । वा॒म् । पृचः॑ ॥