Mantra 1
को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म्। यद्यु॑यु॒ज्रे कि॑ला॒स्यः॑ ॥१॥
कः । वे॒द॒ । जान॑म् । ए॒षा॒म् । कः । वा॒ । पु॒रा । सु॒म्नेषु॑ । आ॒स॒ । म॒रुता॑म् । यत् । यु॒यु॒ज्रे । कि॒ला॒स्यः॑ ॥
Mantra 2
ऐतान्रथे॑षु त॒स्थुषः॒ कः शु॑श्राव क॒था य॑युः। कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टयः॑ स॒ह ॥२॥
आ । ए॒तान् । रथे॑षु । त॒स्थुषः॑ । कः । शु॒श्रा॒व॒ । क॒था । य॒युः॒ । कस्मै॑ । स॒स्रुः॒ । सु॒ऽदासे॑ । अनु॑ । आ॒पयः॑ । इळा॑भिः । वृ॒ष्टयः॑ । स॒ह ॥
Mantra 3
ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑। नरो॒ मर्या॑ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ॥३॥
ते । मे॒ । आहुः॑ । ये । आ॒ऽय॒युः । उप॑ । द्युऽभिः॑ । विऽभिः॑ । मदे॑ । नरः॑ । मर्याः॑ । अ॒रे॒पसः॑ । इ॒मान् । पश्य॑न् । इति॑ । स्तु॒हि॒ ॥
Mantra 4
ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑। श्रा॒या रथे॑षु॒ धन्व॑सु ॥४॥
ये । अ॒ञ्जिषु॑ । ये । वाशी॑षु । स्वऽभा॑नवः । स्र॒क्षु । रु॒क्मेषु॑ । खा॒दिषु॑ । श्रा॒याः । रथे॑षु । धन्व॑ऽसु ॥
Mantra 5
यु॒ष्माकं॑ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः। वृ॒ष्टी द्यावो॑ य॒तीरि॑व ॥५॥
यु॒ष्माक॑म् । स्म॒ । रथा॑न् । अनु॑ । मु॒दे । द॒धे॒ । म॒रु॒तः॒ । जी॒र॒ऽदा॒न॒वः॒ । वृ॒ष्टी । द्यावः॑ । य॒तीःऽइ॑व ॥
Mantra 6
आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः। वि प॒र्जन्यं॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑ ॥६॥
आ । यम् । नरः॑ । सु॒ऽदान॑वः । द॒दा॒शुषे॑ । दि॒वः । कोश॑म् । अचु॑च्यवुः । वि । प॒र्जन्य॑म् । सृ॒ज॒न्ति॒ । रोद॑सी॒ इति॑ । अनु॑ । धन्व॑ना । य॒न्ति॒ । वृ॒ष्टयः॑ ॥
Mantra 7
त॒तृ॒दा॒नाः सिन्ध॑वः॒ क्षोद॑सा॒ रजः॒ प्र स॑स्रुर्धे॒नवो॑ यथा। स्य॒न्ना अश्वा॑इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्त॑न्त ए॒न्यः॑ ॥७॥
त॒तृ॒दा॒नाः । सिन्ध॑वः । क्षोद॑सा । रजः॑ । प्र । स॒स्रुः॒ । धे॒नवः॑ । य॒था॒ । स्य॒न्नाः । अश्वाः॑ऽइव । अध्व॑नः । वि॒ऽमोच॑ने । वि । यत् । वर्त॑न्ते । ए॒न्यः॑ ॥
Mantra 8
आ या॑त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त। माव॑ स्थात परा॒वतः॑ ॥८॥
आ । या॒त॒ । म॒रु॒तः॒ । दि॒वः । आ । अ॒न्तरि॑क्षात् । अ॒मात् । उ॒त । मा । अव॑ । स्था॒त॒ । प॒रा॒ऽवतः॑ ॥
Mantra 9
मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिन्धु॒र्नि री॑रमत्। मा वः॒ परि॑ ष्ठात्स॒रयुः॑ पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ॥९॥
मा । वः॒ । र॒सा । अनि॑तभा । कुभा॑ । क्रुमुः॑ । मा । वः॒ । सिन्धुः॑ । नि । री॒र॒म॒त् । मा । वः॒ । परि॑ । स्था॒त् । स॒रयुः॑ । पु॒री॒षिणी॑ । अ॒स्मे इति॑ । इत् । सु॒म्नम् । अ॒स्तु॒ । वः॒ ॥
Mantra 10
तं वः॒ शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम्। अनु॒ प्र य॑न्ति वृ॒ष्टयः॑ ॥१०॥
तम् । वः॒ । शर्ध॑म् । रथा॑नाम् । त्वे॒षम् । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् । अनु॑ । प्र । य॒न्ति॒ । वृ॒ष्टयः॑ ॥
Mantra 11
शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभिः॑। अनु॑ क्रामेम धी॒तिभिः॑ ॥११॥
शर्ध॑म्ऽशर्धम् । वः॒ । ए॒षा॒म् । व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ । अनु॑ । क्रा॒मे॒म॒ । धी॒तिऽभिः॑ ॥
Mantra 12
कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः। ए॒ना यामे॑न म॒रुतः॑ ॥१२॥
कस्मै॑ । अ॒द्य । सुऽजा॑ताय । रा॒तऽह॑व्याय । प्र । य॒युः॒ । ए॒ना । यामे॑न । म॒रुतः॑ ॥
Mantra 13
येन॑ तो॒काय॒ तन॑याय धा॒न्यं१॒॑ बीजं॒ वह॑ध्वे॒ अक्षि॑तम्। अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गम् ॥१३॥
येन॑ । तो॒काय॑ । तन॑याय । धा॒न्य॑म् । बीज॑म् । वह॑ध्वे । अक्षि॑तम् । अ॒स्मभ्य॑म् । तत् । ध॒त्त॒न॒ । यत् । वः॒ । ईम॑हे । राधः॑ । वि॒श्वऽआयु । सौभ॑गम् ॥
Mantra 14
अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः। वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥१४॥
अति॑ । इ॒या॒म॒ । नि॒दः । ति॒रः । स्व॒स्तिऽभिः॑ । हि॒त्वा । अ॒व॒द्यम् । अरा॑तीः । वृ॒ष्ट्वी । सम् । योः । आपः॑ । उ॒स्रि । भे॒ष॒जम् । स्याम॑ । म॒रु॒तः॒ । स॒ह ॥
Mantra 15
सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुतः॒ स मर्त्यः॑। यं त्राय॑ध्वे॒ स्याम॒ ते ॥१५॥
सु॒ऽदे॒वः । स॒म॒ह॒ । अ॒स॒ति॒ । सु॒ऽवीरः॑ । न॒रः॒ । म॒रु॒तः॒ । सः । मर्त्यः॑ । यम् । त्राय॑ध्वे । स्याम॑ । ते ॥
Mantra 16
स्तु॒हि भो॒जान्त्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से। य॒तः पूर्वाँ॑इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑ ॥१६॥
स्तु॒हि । भो॒जान् । स्तु॒व॒तः । अ॒स्य॒ । याम॑नि । रण॑म् । गावः॑ । न । यव॑से । य॒तः । पूर्वा॑न्ऽइव । सखी॑न् । अनु॑ । ह्व॒य॒ । गि॒रा । गृ॒णी॒हि॒ । का॒मिनः॑ ॥