Mantra with Swara
तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन्। उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥४॥
तत् । नः॒ । अ॒न॒र्वा । स॒वि॒ता । वरू॑थम् । तत् । सिन्ध॑वः । इ॒षय॑न्तः । अनु॑ । ग्म॒न् । उप॑ । यत् । वोचे॑ । अ॒ध्व॒रस्य॑ । होता॑ । रा॒यः । स्या॒म॒ । पत॑यः । वाज॑ऽरत्नाः ॥
Mantra without Swara
तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन्। उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥
तत्। नः। अनर्वा। सविता। वरूथम्। तत्। सिन्धवः। इषयन्तः। अनु। ग्मन्। उप। यत्। वोचे। अध्वरस्य। होता। रायः। स्याम। पतयः। वाजऽरत्नाः ॥४॥
Ashtak » 4
Adhyay » 3
Varga » 3
Mantra » 4
