Mantra with Swara
प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य। उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ॥२॥
प्रति॑ । प्र॒ऽयान॑म् । असु॑रस्य । वि॒द्वान् । सु॒ऽउ॒क्तैः । दे॒वम् । स॒वि॒तार॑म् । दु॒व॒स्य॒ । उप॑ । ब्रु॒वी॒त॒ । नम॑सा । वि॒ऽजा॒नन् । ज्येष्ठ॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः ॥
Mantra without Swara
प्रति प्रयाणमसुरस्य विद्वान्त्सूक्तैर्देवं सवितारं दुवस्य। उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः ॥
प्रति। प्रऽयानम्। असुरस्य। विद्वान्। सुऽउक्तैः। देवम्। सवितारम्। दुवस्य। उप। ब्रुवीत। नमसा। विऽजानन्। ज्येष्ठम्। च। रत्नम्। विऽभजन्तम्। आयोः ॥२॥
Ashtak » 4
Adhyay » 3
Varga » 3
Mantra » 2
