Mantra with Swara
न स राजा॑ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम्। आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥४॥
न । सः । राजा॑ । व्य॒थ॒ते॒ । यस्मि॑न् । इन्द्रः॑ । ती॒व्रम् । सोम॑म् । पिब॑ति । गोऽस॑खायम् । आ । स॒त्व॒नैः । अज॑ति । हन्ति॑ । वृ॒त्रम् । क्षेति॑ । क्षि॒तीः । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ॥
Mantra without Swara
न स राजा व्यथते यस्मिन्निन्द्रस्तीव्रं सोमं पिबति गोसखायम्। आ सत्वनैरजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥
न। सः। राजा। व्यथते। यस्मिन्। इन्द्रः। तीव्रम्। सोमम्। पिबति। गोऽसखायम्। आ। सत्वनैः। अजति। हन्ति। वृत्रम्। क्षेति। क्षितीः। सुऽभगः। नाम। पुष्यन् ॥४॥
Ashtak » 4
Adhyay » 2
Varga » 8
Mantra » 4
