Mantra 1
क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिन्द्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम्। यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छन्तदोको॒ गन्ता॑ पुरुहू॒त ऊ॒ती ॥१॥
क्व॑ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र॑म् । सु॒खऽर॑थम् । ईय॑मानम् । हरि॑ऽभ्याम् । यः । रा॒या । व॒ज्री । सु॒तऽसो॑मम् । इ॒च्छन् । तत् । ओकः॑ । गन्ता॑ । पु॒रु॒ऽहू॒तः । ऊ॒ती ॥
Mantra 2
अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन्। अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिन्द्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥२॥
अव॑ । अ॒च॒च॒क्ष॒म् । प॒दम् । अ॒स्य॒ । स॒स्वः । उ॒ग्रम् । नि॒ऽधा॒तुः । अनु॑ । आ॒य॒म् । इ॒च्छन् । अपृ॑च्छम् । अ॒न्यान् । उ॒त । ते । मे॒ । आ॒हुः॒ । इन्द्र॑म् । नरः॑ । बु॒बु॒धा॒नाः । अ॒शे॒म॒ ॥
Mantra 3
प्र नु व॒यं सु॒ते या ते॑ कृ॒तानीन्द्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः। वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥३॥
प्र । नु । व॒यम् । सु॒ते । या । ते॒ । कृ॒तानि॑ । इन्द्र॑ । ब्रवा॑म । यानि॑ । नः॒ । जुजो॑षः । वेद॑त् । अवि॑द्वान् । शृ॒णव॑त् । च॒ । वि॒द्वान् । वह॑ते । अ॒यम् । म॒घऽवा॑ । सर्व॑ऽसेनः ॥
Mantra 4
स्थि॒रं मन॑श्चकृषे जा॒त इ॑न्द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित्। अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णाम् ॥४॥
स्थि॒रम् । मनः॑ । च॒कृ॒षे॒ । जा॒तः । इ॒न्द्र॒ । वेषि॑ । इत् । एकः॑ । यु॒धये॑ । भूय॑सः । चित् । अश्मा॑नम् । चि॒त् । शव॑सा । दि॒द्यु॒तः॒ । वि । वि॒दः । गवा॑म् । ऊ॒र्वम् । उ॒स्रिया॑णाम् ॥
Mantra 5
प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त्। अत॑श्चि॒दिन्द्रा॑दभयन्त दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥५॥
प॒रः । यत् । त्वम् । प॒र॒मः । आ॒ऽजनि॑ष्ठाः । प॒रा॒ऽवति॑ । श्रुत्य॑म् । नाम॑ । बिभ्र॑त् । अतः॑ । चि॒त् । इन्द्रा॑त् । अ॒भ॒य॒न्त॒ । दे॒वाः । विश्वाः॑ । अ॒पः । अ॒ज॒य॒त् । दा॒सऽप॑त्नीः ॥
Mantra 6
तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्च॑न्त्य॒र्कं सु॒न्वन्त्यन्धः॑। अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिन्द्रः॑ ॥६॥
तुभ्य॑ । इत् । ए॒ते । म॒रुतः॑ । सु॒ऽशेवाः॑ । अर्च॑न्ति । अ॒र्कम् । सु॒न्वन्ति॑ । अन्धः॑ । अहि॑म् । ओ॒हा॒नम् । अ॒पः । आ॒ऽशया॑नम् । प्र । मा॒याऽभिः॑ । मा॒यिन॑म् । स॒क्ष॒त् । इन्द्रः॑ ॥
Mantra 7
वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः। अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥७॥
वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । सम्॒ऽच॒का॒नः । अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥
Mantra 8
युजं॒ हि मामकृ॑था॒ आदिदि॑न्द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन्। अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्यः॑ ॥८॥
युज॑म् । हि । माम् । अकृ॑थाः । आत् । इत् । इ॒न्द्र॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् । अश्मा॑नम् । चित् । स्व॒र्य॑म् । वर्त॑मानम् । प्र । च॒क्रिया॑ऽइव । रोद॑सी॒ इति॑ । म॒रुत्ऽभ्यः॑ ॥
Mantra 9
स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेनाः॑। अ॒न्तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिन्द्रः॑ ॥९॥
स्त्रियः॑ । हि । दा॒सः । आयु॑धानि । च॒क्रे । किम् । मा॒ । क॒र॒न् । अ॒ब॒लाः । अ॒स्य॒ । सेनाः॑ । अ॒न्तः । हि । अख्य॑त् । उ॒भे इति॑ । अ॒स्य॒ । धेने॒ इति॑ । अथ॑ । उप॑ । प्र । ऐ॒त् । यु॒धये॑ । दस्यु॑म् । इन्द्रः॑ ॥
Mantra 10
समत्र॒ गावो॒ऽभितो॑ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न्। सं ता इन्द्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अम॑न्दन् ॥१०॥
सम् । अत्र॑ । गावः॑ । अ॒भितः॑ । अ॒न॒व॒न्त॒ । इ॒हऽइ॑ह । व॒त्सैः । विऽयु॑ताः । यत् । आस॑न् । सम् । ताः । इन्द्रः॑ । अ॒सृ॒ज॒त् । अ॒स्य॒ । शा॒कैः । यत् । ई॒म् । सोमा॑सः । सुऽसु॑ताः । अम॑न्दन् ॥
Mantra 11
यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अम॑न्द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु। पु॒रं॒द॒रः प॑पि॒वाँ इन्द्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णाम् ॥११॥
यत् । ई॒म् । सोमाः॑ । ब॒भ्रुऽधू॑ताः । अम॑न्दन् । अरो॑रवीत् । वृ॒ष॒भः । साद॑नेषु । पु॒र॒म्ऽद॒रः । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ । पुनः॑ । गवा॑म् । अ॒द॒दा॒त् । उ॒स्रिया॑णाम् ॥
Mantra 12
भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑। ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम् ॥१२॥
भ॒द्रम् । इ॒दम् । रु॒शमाः । अ॒ग्ने॒ । अ॒क्र॒न् । गवा॑म् । च॒त्वारि॑ । दद॑तः । स॒हस्रा॑ । ऋ॒ण॒म्ऽच॒यस्य॑ । प्रऽय॑ता । म॒घानि॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । नृऽत॑मस्य । नृ॒णाम् ॥
Mantra 13
सु॒पेश॑सं॒ माव॑ सृज॒न्त्यस्तं॒ गवां॑ स॒हस्रै॑ रु॒शमा॑सो अग्ने। ती॒व्रा इन्द्र॑मममन्दुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ॥१३॥
सु॒ऽपेश॑सम् । मा॒ । अव॑ । सृ॒ज॒न्ति॒ । अस्त॑म् । गवा॑म् । स॒हस्रैः॑ । रु॒शमा॑सः । अ॒ग्ने॒ । ती॒व्राः । इन्द्र॑म् । अ॒म॒म॒न्दुः॒ । सु॒तासः॑ । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाः ॥
Mantra 14
औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नाम्। अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥१४॥
औच्छ॑त् । सा । रात्री॑ । परि॑ऽतक्म्या । या । ऋ॒ण॒म्ऽच॒ये । राज॑नि । रु॒शमा॑नाम् । अत्यः॑ । न । वा॒जी । र॒घुः । अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् । स॒हस्रा॑ ॥
Mantra 15
चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने। घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥१५॥
चतुः॑ऽसहस्रम् । गव्य॑स्य । प॒श्वः । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । रु॒शमे॑षु । अ॒ग्ने॒ । घ॒र्मः । चि॒त् । त॒प्तः । प्र॒ऽवृजे॑ । यः । आसी॑त् । अ॒य॒स्मयः॑ । तम् । ऊँ॒ इति॑ । आदा॑म । विप्राः॑ ॥