Mantra with Swara
स॒मि॒ध्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं॑ सचसे स्व॒स्तये॑। विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ॥२॥
स॒म्ऽइ॒ध्यमा॑नः । अ॒मृत॑स्य । रा॒ज॒सि॒ । ह॒विः । कृ॒ण्वन्त॑म् । स॒च॒से॒ । स्व॒स्तये॑ । विश्व॑म् । सः । ध॒त्ते॒ । द्रवि॑णम् । यम् । इन्व॑सि । आ॒ति॒थ्यम् । अ॒ग्ने॒ । नि । च॒ । ध॒त्ते॒ । इत् । पु॒रः ॥
Mantra without Swara
समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये। विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः ॥
सम्ऽइध्यमानः। अमृतस्य। राजसि। हविः। कृण्वन्तम्। सचसे। स्वस्तये। विश्वम्। सः। धत्ते। द्रविणम्। यम्। इन्वसि। आतिथ्यम्। अग्ने। नि। च। धत्ते। इत्। पुरः ॥२॥
Ashtak » 4
Adhyay » 1
Varga » 22
Mantra » 2
