Mantra with Swara
ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन्। दि॒वो धर्म॑न्ध॒रुणे॑ से॒दुषो॒ नॄञ्जा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥२॥
ऋ॒तेन॑ । ऋ॒तम् । ध॒रुण॑म् । धा॒र॒य॒न्त॒ । य॒ज्ञस्य॑ । शो॒के । प॒र॒मे । विऽओ॑मन् । दि॒वः । धर्म॑न् । ध॒रुणे॑ । से॒दुषः॑ । नॄन् । जा॒तैः । अजा॑तान् । अ॒भि । ये । न॒न॒क्षुः ॥
Mantra without Swara
ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन्। दिवो धर्मन्धरुणे सेदुषो नॄञ्जातैरजाताँ अभि ये ननक्षुः ॥
ऋतेन। ऋतम्। धरुणम्। धारयन्त। यज्ञस्य। शाके। परमे। विऽओमन्। दिवः। धर्मन्। धरुणे। सेदुषः। नॄन्। जातैः। अजातान्। अभि। ये। ननक्षुः ॥२॥
Ashtak » 4
Adhyay » 1
Varga » 7
Mantra » 2
