Mantra with Swara
कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्यः॑। वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः ॥३॥
कया॑ । नः॒ । अ॒ग्ने॒ । ऋ॒तय॑न् । ऋ॒तेन॑ । भुवः॑ । नवे॑दाः । उ॒चथ॑स्य । नव्यः॑ । वेद॑ । मे॒ । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तू॒नाम् । न । अ॒हम् । पति॑म् । स॒नि॒तुः॒ । अ॒स्य । रा॒यः ॥
Mantra without Swara
कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः। वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः ॥
कया। नः। अग्ने। ऋतयन्। ऋतेन। भुवः। नवेदाः। उचथस्य। नव्यः। वेद। मे। देवः। ऋतुऽपाः। ऋतूनाम्। न। अहम्। पतिम्। सनितुः। अस्य। रायः ॥३॥
Ashtak » 4
Adhyay » 1
Varga » 4
Mantra » 3
