Mantra with Swara
ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः। नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ॥२॥
ऋ॒तम् । चि॒कि॒त्वः॒ । ऋ॒तम् । इत् । चि॒कि॒द्धि॒ । ऋ॒तस्य॑ । धाराः॑ । अनु॑ । तृ॒न्धि॒ । पू॒र्वीः । न । अ॒हम् । या॒तुम् । सह॑सा । न । द्व॒येन॑ । ऋ॒तम् । स॒पा॒मि॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ॥
Mantra without Swara
ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः। नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः ॥
ऋतम्। चिकित्वः। ऋतम्। इत्। चिकिद्धि। ऋतस्य। धाराः। अनु। तृन्धि। पूर्वीः। न। अहम्। यातुम्। सहसा। न। द्वयेन। ऋतम्। सपामि। अरुषस्य। वृष्णः ॥२॥
Ashtak » 4
Adhyay » 1
Varga » 4
Mantra » 2
