Mantra with Swara
त्वं नो॑ अग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र। होत॑र्विभ्वा॒सहं॑ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥७॥
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । स्तु॒तः । स्तवा॑नः । आ । भ॒र॒ । होतः॑ । वि॒भ्व॒ऽसह॑म् । र॒यिम् । स्तो॒तृऽभ्यः॑ । स्तव॑से । च॒ । नः॒ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥
Mantra without Swara
त्वं नो अग्ने अङ्गिरः स्तुतः स्तवान आ भर। होतर्विभ्वासहं रयिं स्तोतृभ्यः स्तवसे च न उतैधि पृत्सु नो वृधे ॥
त्वम्। नः। अग्ने। अङ्गिरः। स्तुतः। स्तवानः। आ। भर। होतः। विभ्वऽसहम्। रयिम्। स्तोतृभ्यः। स्तवसे। च। नः। उत। एधि। पृत्ऽसु। नः। वृधे ॥७॥
Ashtak » 4
Adhyay » 1
Varga » 2
Mantra » 7
