Mantra with Swara
त्वं नो॑ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना॑। त्वे अ॑सु॒र्य१॒॑मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ॥२॥
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒द्भु॒त॒ । क्रत्वा॑ । दक्ष॑स्य । मं॒हना॑ । त्वे इति॑ । अ॒सु॒र्य॑म् । आ । अ॒रु॒ह॒त् । क्रा॒णा । मि॒त्रः । न । य॒ज्ञियः॑ ॥
Mantra without Swara
त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना। त्वे असुर्य१मारुहत्क्राणा मित्रो न यज्ञियः ॥
त्वम्। नः। अग्ने। अद्भुत। क्रत्वा। दक्षस्य। मंहना। त्वे इति। असुर्यम्। आ। अरुहत्। क्राणा। मित्रः। न। यज्ञियः ॥२॥
Ashtak » 4
Adhyay » 1
Varga » 2
Mantra » 2
