Mantra with Swara
यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः। यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ॥२॥
यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । तान् । दिवः॑ । न॒पा॒ता॒ । व॒न॒थः॒ । शची॑भिः । यु॒वोः । वपुः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हासः॑ । रथे॑ । वा॒म् ॥
Mantra without Swara
युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः। युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥
युवम्। श्रियम्। अश्विना। देवता। ताम्। दिवः। नपाता। वनथः। शचीभिः। युवोः। वपुः। अभि। पृक्षः। सचन्ते। वहन्ति। यत्। ककुहासः। रथे। वाम् ॥२॥
Ashtak » 3
Adhyay » 7
Varga » 20
Mantra » 2
