Mantra 1
कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे॑न। तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥१॥
कृ॒णु॒ष्व । पाजः॑ । प्रऽसि॑तिम् । न । पृ॒थ्वीम् । या॒हि । राजा॑ऽइव । अम॑ऽवान् । इभे॑न । तृ॒ष्वीम् । अनु॑ । प्रऽसि॑तिम् । द्रू॒णा॒नः । अस्ता॑ । अ॒सि॒ । विध्य॑ । र॒क्षसः॑ । तपि॑ष्ठैः ॥
Mantra 2
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः। तपूं॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥२॥
तव॑ । भ्र॒मासः॑ । आ॒शु॒ऽया । प॒त॒न्ति॒ । अनु॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः । तपूं॑षि । अ॒ग्ने॒ । जु॒ह्वा॑ । प॒त॒ङ्गान् । अस॑म्ऽदितः । वि । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥
Mantra 3
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः। यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥३॥
प्रति॑ । स्पशः॑ । वि । सृ॒ज॒ । तूर्णि॑ऽतमः । भव॑ । पा॒युः । वि॒शः । अ॒स्याः । अद॑ब्धः । यः । नः॒ । दू॒रे । अ॒घऽशं॑सः । यः । अन्ति॑ । अग्ने॑ । माकिः॑ । ते॒ । व्यथिः॑ । आ । द॒ध॒र्षी॒त् ॥
Mantra 4
उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॒॑मित्राँ॑ ओषतात्तिग्महेते। यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ॥४॥
उत् । अ॒ग्ने॒ । ति॒ष्ठ॒ । प्रति॑ । आ । त॒नु॒ष्व॒ । नि । अ॒मित्रा॑न् । ओ॒ष॒ता॒त् । ति॒ग्म॒ऽहे॒ते॒ । यः । नः॒ । अरा॑तिम् । स॒म्ऽइ॒धा॒न॒ । च॒क्रे । नी॒चा । तम् । ध॒क्षि॒ । अ॒त॒सम् । न । शुष्क॑म् ॥
Mantra 5
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने। अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ॥५॥
ऊ॒र्ध्वः । भ॒व॒ । प्रति॑ । वि॒ध्य॒ । अधि॑ । अ॒स्मत् । आ॒विः । कृ॒णु॒ष्व॒ । दैव्या॑नि । अ॒ग्ने॒ । अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् । जा॒मिम् । अजा॑मिम् । प्र । मृ॒णी॒हि॒ । शत्रू॑न् ॥
Mantra 6
स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त्। विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥६॥
सः । ते॒ । जा॒ना॒ति॒ । सु॒ऽम॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् । विश्वा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वि । दुरः॑ । अ॒भि । द्यौ॑त् ॥
Mantra 7
सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः। पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥७॥
सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒ऽभगः॑ । सु॒ऽदानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा॑ । यः । उ॒क्थैः । पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒णे । विश्वा॑ । इत् । अ॒स्मै॒ । सु॒ऽदिना॑ । सा । अ॒स॒त् । इ॒ष्टिः ॥
Mantra 8
अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः। स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥८॥
अर्चा॑मि । ते॒ । सु॒ऽम॒तिम् । घोषि॑ । अ॒र्वाक् । सम् । ते॒ । व॒वाता॑ । ज॒र॒ता॒म् । इ॒यम् । गीः । सु॒ऽअश्वाः॑ । त्वा॒ । सु॒ऽरथाः॑ । म॒र्ज॒ये॒म॒ । अ॒स्मे इति॑ । क्ष॒त्राणि॑ । धा॒र॒येः॒ । अनु॑ । द्यून् ॥
Mantra 9
इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून्। क्रीळ॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नाम् ॥९॥
इ॒ह । त्वा॒ । भूरि॑ । आ । च॒रे॒त् । उप॑ । त्मन् । दोषा॑ऽवस्तः । दी॒दि॒वांस॑म् । अनु॑ । द्यून् । क्रीळ॑न्तः । त्वा॒ । सु॒ऽमन॑सः । स॒पे॒म॒ । अ॒भि । द्यु॒म्ना । त॒स्थि॒वांसः॑ । जना॑नाम् ॥
Mantra 10
यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न। तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥१०॥
यः । त्वा॒ । सु॒ऽअश्वः॑ । सु॒ऽहि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒ऽयाति॑ । वसु॑ऽमता । रथे॑न । तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा॑ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥
Mantra 11
म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय। त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥११॥
म॒हः । रु॒जा॒मि॒ । ब॒न्धुता॑ । वचः॑ऽभिः । तत् । मा॒ । पि॒तुः । गोत॑मात् । अनु॑ । इ॒या॒य॒ । त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दमू॑नाः ॥
Mantra 12
अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः। ते पा॒यवः॑ स॒ध्र्य॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ॥१२॥
अस्व॑प्नऽजः । त॒रण॑यः । सु॒ऽशेवाः॑ । अत॑न्द्रासः । अ॒वृ॒काः । अश्र॑मिष्ठाः । ते । पा॒यवः॑ । स॒ध्र्य॑ञ्चः । नि॒ऽसद्य॑ । अ॒ग्ने॒ । तव॑ । नः॒ । पा॒न्तु॒ । अ॒मू॒र॒ ॥
Mantra 13
ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन्। र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥१३॥
ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुः॒ऽइ॒तात् । अर॑क्षन् । र॒रक्ष॑ । तान् । सु॒ऽकृतः॑ । वि॒श्वऽवे॑दाः । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । अह॑ । दे॒भुः॒ ॥
Mantra 14
त्वया॑ व॒यं स॑ध॒न्य१॒॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न्। उ॒भा शंसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥१४॥
त्वया॑ । व॒यम् । स॒ध॒न्यः॑ । त्वाऽऊ॑ताः । तव॑ । प्रऽनी॑ती । अ॒श्या॒म॒ । वाजा॑न् । उ॒भा । शंसा॑ । सू॒द॒य॒ । स॒त्य॒ऽता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥
Mantra 15
अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय। दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य१॒॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥१५॥
अ॒या । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । प्रति॑ । स्तोम॑म् । श॒स्यमा॑नम् । गृ॒भा॒य॒ । दह॑ । अ॒शसः॑ । र॒क्षसः॑ । पा॒हि । अ॒स्मान् । द्रु॒हः । नि॒दः । मि॒त्र॒ऽम॒हः॒ । अ॒व॒द्यात् ॥