Mantra 1
उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानैः॑। यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म् ॥१॥
उप॑ । नः॒ । वा॒जाः॒ । अ॒ध्व॒रम् । ऋ॒भु॒क्षाः॒ । देवाः॑ । या॒त । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । यथा॑ । य॒ज्ञम् । मनु॑षः । वि॒क्षु । आ॒सु । द॒धि॒ध्वे । र॒ण्वाः॒ । सु॒ऽदिने॑षु । अह्ना॑म् ॥
Mantra 2
ते वो॑ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः। प्र वः॑ सु॒तासो॑ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयन्त पी॒ताः ॥२॥
ते । वः॒ । ह्र॒दे । मन॑से । स॒न्तु॒ । य॒ज्ञाः । जुष्टा॑सः । अ॒द्य । घृ॒तऽनि॑र्निजः । गुः॒ । प्र । वः॒ । सु॒तासः॑ । ह॒र॒य॒न्त॒ । पू॒र्णाः । क्रत्वे॑ । दक्षा॑य । ह॒र्ष॒य॒न्त॒ । पी॒ताः ॥
Mantra 3
त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ वः॒ स्तोमो॑ वाजा ऋभुक्षणो द॒दे वः॑। जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोम॑म् ॥३॥
त्रि॒ऽउ॒दा॒यम् । दे॒वऽहि॑तम् । वः॒ । स्तोमः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । द॒दे । वः॒ । जु॒ह्वे । म॒नु॒ष्वत् । उप॑रासु । वि॒क्षु । यु॒ष्मे इति॑ । सचा॑ । बृ॒हत्ऽदि॑वेषु । सोम॑म् ॥
Mantra 4
पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒तायः॑शिप्रा वाजिनः सुनि॒ष्काः। इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥४॥
पीवः॑ऽअश्वाः । शु॒चत्ऽऽर॑थाः । हि । भू॒त । आयः॑ऽशिप्राः । वा॒जि॒नः॒ । सु॒ऽनि॒ष्काः । इन्द्र॑स्य । सू॒नः॒ । श॒व॒सः॒ । न॒पा॒तः॒ । अनु॑ । वः॒ । चे॒ति॒ । अ॒ग्रि॒यम् । मदा॑य ॥
Mantra 5
ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिन्त॑मं॒ युज॑म्। इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन॑म् ॥५॥
ऋ॒भुम् । ऋ॒भु॒क्ष॒णः॒ । र॒यिम् । वाजे॑ । वा॒जिन्ऽत॑मम् । युज॑म् । इन्द्र॑स्वन्तम् । ह॒वा॒म॒हे॒ । स॒दा॒ऽसात॑मम् । अ॒श्विन॑म् ॥
Mantra 6
सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य॑म्। स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता ॥६॥
सः । इत् । ऋ॒भ॒वः॒ । यम् । अव॑थ । यू॒यम् । इन्द्रः॑ । च॒ । मर्त्य॑म् । सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता । मे॒धऽसा॑ता । सः । अर्व॑ता ॥
Mantra 7
वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे। अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥७॥
वि । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । प॒थः । चि॒त॒न॒ । यष्ट॑वे । अ॒स्मभ्य॑म् । सू॒र॒यः॒ । स्तु॒ताः । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥
Mantra 8
तं नो॑ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम्। समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥८॥
तम् । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । इन्द्र॑ । नास॑त्या । र॒यिम् । सम् । अश्व॑म् । च॒र्ष॒णिऽभ्यः॑ । आ । पु॒रु । श॒स्त॒ । म॒घत्त॑ये ॥