Mantra 1
इ॒होप॑ यात शवसो नपातः॒ सौध॑न्वना ऋभवो॒ माप॑ भूत। अ॒स्मिन्हि वः॒ सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा॑सः ॥१॥
इ॒ह । उप॑ । या॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध॑न्वनाः । ऋ॒भ॒वः॒ । मा । अप॑ । भू॒त॒ । अ॒स्मिन् । हि । वः॒ । सव॑ने । र॒त्न॒ऽधेय॑म् । गम॑न्तु । इन्द्र॑म् । अनु॑ । वः॒ । मदा॑सः ॥
Mantra 2
आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः। सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ चँ॒ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥२॥
आ । अ॒ग॒न् । ऋ॒भू॒णाम् । इ॒ह । र॒त्न॒ऽधेय॑म् । अभू॑त् । सोम॑स्य । सुऽसु॑तस्य । पी॒तिः । सु॒ऽकृ॒त्यया॑ । यत् । सु॒ऽअ॒प॒स्यया॑ । च॒ । एक॑म् । वि॒ऽच॒क्र । च॒म॒सम् । च॒तुः॒ऽधा ॥
Mantra 3
व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत। अथै॑त वाजा अ॒मृत॑स्य॒ पन्थां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥३॥
वि । अ॒कृ॒णो॒त॒ । च॒म॒सम् । च॒तुः॒ऽधा । सखे॑ । वि । शि॒क्ष॒ । इति॑ । अ॒ब्र॒वी॒त॒ । अथ॑ । ऐ॒त॒ । वा॒जाः॒ । अ॒मृत॑स्य । पन्था॑म् । ग॒णम् । दे॒वाना॑म् । ऋ॒भ॒वः॒ । सु॒ऽह॒स्ताः॒ ॥
Mantra 4
किं॒मयः॑ स्विच्चम॒स ए॒ष आ॑स॒ यं काव्ये॑न च॒तुरो॑ विच॒क्र। अथा॑ सुनुध्वं॒ सव॑नं॒ मदा॑य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ॥४॥
कि॒म्ऽमयः॑ । स्वि॒त् । च॒म॒सः । ए॒षः । आ॒स॒ । यम् । काव्ये॑न । च॒तुरः॑ । वि॒ऽच॒क्र । अथ॑ । सु॒नु॒ध्व॒म् । सव॑नम् । मदा॑य । पा॒त । ऋ॒भ॒वः॒ । मधु॑नः । सो॒म्यस्य॑ ॥
Mantra 5
शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पान॑म्। शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा॑वृभवो वाजरत्नाः ॥५॥
शच्या॑ । अ॒क॒र्त॒ । पि॒तरा॑ । युवा॑ना । शच्या॑ । अ॒क॒र्त॒ । च॒म॒सम् । दे॒व॒ऽपान॑म् । शच्या॑ । हरी॒ इति॑ । धनु॑ऽतरौ । अ॒त॒ष्ट॒ । इ॒न्द्र॒ऽवाहौ॑ । ऋ॒भ॒वः॒ । वा॒ज॒ऽर॒त्नाः॒ ॥
Mantra 6
यो वः॑ सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जासः॒ सव॑नं॒ मदा॑य। तस्मै॑ र॒यिमृ॑भवः॒ सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ॥६॥
यः । वः॒ । सु॒नोति॑ । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् । ती॒व्रम् । वा॒जा॒सः॒ । सव॑नम् । मदा॑य । तस्मै॑ । र॒यिम् । ऋ॒भ॒वः॒ । सर्व॑ऽवीरम् । आ । ता॒क्ष॒त॒ । वृ॒ष॒णः॒ । म॒न्द॒सा॒नाः ॥
Mantra 7
प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्य॑न्दिनं॒ सव॑नं॒ केव॑लं ते। समृ॒भुभिः॑ पिबस्व रत्न॒धेभिः॒ सखीँ॒र्याँ इ॑न्द्र चकृ॒षे सु॑कृ॒त्या ॥७॥
प्रा॒तरिति॑ । सु॒तम् । अ॒पि॒बः॒ । ह॒रि॒ऽअ॒श्व॒ । माध्य॑न्दिनम् । सव॑नम् । केव॑लम् । ते॒ । सम् । ऋ॒भुऽभिः॑ । पि॒ब॒स्व॒ । र॒त्न॒ऽधेभिः॑ । सखी॑न् । यान् । इ॒न्द्र॒ । च॒कृ॒षे । सु॒ऽकृ॒त्या ॥
Mantra 8
ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒नाइ॒वेदधि॑ दि॒वि नि॑षे॒द। ते रत्नं॑ धात शवसो नपातः॒ सौध॑न्वना॒ अभ॑वता॒मृता॑सः ॥८॥
ये । दे॒वासः॑ । अभ॑वत । सु॒ऽकृ॒त्या । श्ये॒नाःऽइ॑व । इत् । अधि॑ । दि॒वि । नि॒ऽसे॒द । ते । रत्न॑म् । धा॒त॒ । श॒व॒सः॒ । न॒पा॒तः॒ । सौध॑न्वनाः । अभ॑वत । अ॒मृता॑सः ॥
Mantra 9
यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः। तदृ॑भवः॒ परि॑षिक्तं व ए॒तत्सं मदे॑भिरिन्द्रि॒येभिः॑ पिबध्वम् ॥९॥
यत् । तृ॒तीय॑म् । सव॑नम् । र॒त्न॒ऽधेय॑म् । अकृ॑णुध्वम् । सु॒ऽअ॒प॒स्या । सु॒ऽह॒स्ताः॒ । तत् । ऋ॒भ॒वः॒ । परि॑ऽसिक्तम् । वः॒ । ए॒तत् । सम् । मदे॑भिः । इ॒न्द्रि॒येभिः॑ । पि॒ब॒ध्व॒म् ॥