Mantra with Swara
अ॒हं पुरो॑ मन्दसा॒नो व्यै॑रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य। श॒त॒त॒मं वे॒श्यं॑ स॒र्वता॑ता॒ दिवो॑दासमतिथि॒ग्वं यदाव॑म् ॥३॥
अ॒हम् । पुरः॑ । म॒न्द॒सा॒नः । वि । ऐ॒र॒म् । नव॑ । सा॒कम् । न॒व॒तीः । शम्ब॑रस्य । श॒त॒ऽत॒मम् । वे॒श्य॑म् । स॒र्वऽता॑ता । दिवः॑ऽदासम् । अ॒ति॒थि॒ऽग्वम् । यत् । आव॑म् ॥
Mantra without Swara
अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य। शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥
अहम्। पुरः। मन्दसानः। वि। ऐरम्। नव। साकम्। नवतीः। शम्बरस्य। शतऽतमम्। वेश्यम्। सर्वऽताता। दिवःऽदासम्। अतिथिग्वम्। यत्। आवम् ॥३॥
Ashtak » 3
Adhyay » 6
Varga » 15
Mantra » 3
