Mantra with Swara
ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन्। आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥२॥
ऊ॒र्ध्वम् । के॒तुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । ज्योतिः॑ । विश्व॑स्मै । भुव॑नाय । कृ॒ण्वन् । आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । वि । सूर्यः॑ । र॒श्मिऽभिः॑ । चेकि॑तानः ॥
Mantra without Swara
ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन्। आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्चेकितानः ॥
ऊर्ध्वम्। केतुम्। सविता। देवः। अश्रेत्। ज्योतिः। विश्वस्मै। भुवनाय। कृण्वन्। आ। अप्राः। द्यावापृथिवी इति। अन्तरिक्षम्। वि। सूर्यः। रश्मिऽभिः। चेकितानः ॥२॥
Ashtak » 3
Adhyay » 5
Varga » 14
Mantra » 2
