Mantra with Swara
उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि। रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्वः॑॥
उत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । स्तु॒तः । बृ॒हत् । वयः॑ । श॒श॒मा॒नेषु॑ । धे॒हि॒ । रे॒वत् । अ॒ग्ने॒ । वि॒श्वामि॑त्रेषु । शम् । योः । म॒र्मृ॒ज्म । ते॒ । त॒न्व॑म् । भूरि॑ । कृत्वः॑ ॥
Mantra without Swara
उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि। रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं१ भूरि कृत्वः॥
उत्। शोचिषा। सहसः। पुत्र। स्तुतः। बृहत्। वयः। शशमानेषु। धेहि। रेवत्। अग्ने। विश्वामित्रेषु। शम्। योः। मर्मृज्म। ते। तन्वम्। भूरि। कृत्वः॥
Ashtak » 3
Adhyay » 1
Varga » 18
Mantra » 4
