Mantra with Swara
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान्। ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य॥
यथा॑ । अय॑जः । हो॒त्रम् । अ॒ग्ने॒ । पृ॒थि॒व्याः । यथा॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् । ए॒व । अ॒नेन॑ । ह॒विषा॑ । य॒क्षि॒ । दे॒वान् । म॒नु॒ष्वत् । य॒ज्ञम् । प्र । ति॒र॒ । इ॒मम् । अ॒द्य ॥
Mantra without Swara
यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान्। एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य॥
यथा। अयजः। होत्रम्। अग्ने। पृथिव्याः। यथा। दिवः। जातऽवेदः। चिकित्वान्। एव। अनेन। हविषा। यक्षि। देवान्। मनुष्वत्। यज्ञम्। प्र। तिर। इमम्। अद्य॥
Ashtak » 3
Adhyay » 1
Varga » 17
Mantra » 2
