Mantra with Swara
मन्द॑स्व हो॒त्रादनु॒ जोष॒मन्ध॒सोऽध्व॑र्यवः॒ स पू॒र्णां व॑ष्ट्या॒सिच॑म्। तस्मा॑ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑॥
मन्द॑स्व । हो॒त्रात् । अनु॑ । जोष॑म् । अन्ध॑सः । अध्व॑र्यवः । सः । पू॒र्णाम् । व॒ष्टि॒ । आ॒ऽसिच॑म् । तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शः । द॒दिः । हो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥
Mantra without Swara
मन्दस्व होत्रादनु जोषमन्धसोऽध्वर्यवः स पूर्णां वष्ट्यासिचम्। तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः॥
मन्दस्व। होत्रात्। अनु। जोषम्। अन्धसः। अध्वर्यवः। सः। पूर्णाम्। वष्टि। आऽसिचम्। तस्मै। एतम्। भरत। तत्ऽवशः। ददिः। होत्रात्। सोमम्। द्रविणःऽदः। पिब। ऋतुऽभिः॥
Ashtak » 2
Adhyay » 8
Varga » 1
Mantra » 1
