Mantra with Swara
किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न। यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमि॑न्द्रामरुतो दधात॥
किम् । ऊँ॒ इति॑ । नु । वः॒ । कृ॒ण॒वा॒म॒ । अप॑रेण । किम् । सने॑न । व॒स॒वः॒ । आप्ये॑न । यू॒यम् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । अ॒दि॒ते॒ । च॒ । स्व॒स्तिम् । इ॒न्द्रा॒म॒रु॒तः॒ । द॒धा॒त॒ ॥
Mantra without Swara
किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन। यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात॥
किम्। ऊँ इति। नु। वः। कृणवाम। अपरेण। किम्। सनेन। वसवः। आप्येन। यूयम्। नः। मित्रावरुणा। अदिते। च। स्वस्तिम्। इन्द्रामरुतः। दधात॥
Ashtak » 2
Adhyay » 7
Varga » 11
Mantra » 3
