Mantra with Swara
तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तम्। यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः। भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्जं॑ श॒तक्र॑तुर्वि॒दादिष॑म्॥
तव॑ । त्यत् । नर्य॑म् । नृ॒तो॒ इति॑ । अपः॑ । इ॒न्द्र॒ । प्र॒थ॒मम् । पू॒र्व्यम् । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तम् । यत् । दे॒वस्य॑ । शव॑सा । प्र । अरि॑णा । असु॑म् । रि॒णन् । अ॒पः । भुव॑त् । विश्व॑म् । अ॒भि । अदे॑वम् । ओज॑सा । वि॒दात् । ऊर्ज॑म् । श॒तऽक्र॑तुः । वि॒दात् । इष॑म् ॥
Mantra without Swara
तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम्। यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः। भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम्॥
तव। त्यत्। नर्यम्। नृतो इति। अपः। इन्द्र। प्रथमम्। पूर्व्यम्। दिवि। प्रऽवाच्यम्। कृतम्। यत्। देवस्य। शवसा। प्र। अरिणा। असुम्। रिणन्। अपः। भुवत्। विश्वम्। अभि। अदेवम्। ओजसा। विदात्। ऊर्जम्। शतऽक्रतुः। विदात्। इषम्॥
Ashtak » 2
Adhyay » 6
Varga » 28
Mantra » 4
