Mantra with Swara
सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः॑ सास॒हिर्मृधो॒ विच॑र्षणिः। दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑॥
सा॒कम् । जा॒तः । क्रतु॑ना । सा॒कम् । ओज॑सा । व॒व॒क्षि॒थ॒ । सा॒कम् । वृ॒द्धः । वी॒र्यैः॑ । स॒स॒हिः । मृधः॑ । विच॑र्षणिः । दाता॑ । राधः॑ । स्तु॒व॒ते । काम्य॑म् । वसु॑ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥
Mantra without Swara
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः। दाता राधः स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः॥
साकम्। जातः। क्रतुना। साकम्। ओजसा। ववक्षिथ। साकम्। वृद्धः। वीर्यैः। ससहिः। मृधः। विचर्षणिः। दाता। राधः। स्तुवते। काम्यम्। वसु। सः। एनम्। सश्चत्। देवः। देवम्। सत्यम्। इन्द्रम्। सत्यः। इन्दुः॥
Ashtak » 2
Adhyay » 6
Varga » 28
Mantra » 3
