Mantra 1
अध्व॑र्यवो॒ भर॒तेन्द्रा॑य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्धः॑। का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि॥
अध्व॑र्यवः । भर॑त । इन्द्रा॑य । सोम॑म् । आ । अम॑त्रेभिः । सि॒ञ्च॒त॒ । मद्य॑म् । अन्धः॑ । का॒मी । हि । वी॒रः । सद॑म् । अ॒स्य॒ । पी॒तिम् । जु॒होत॑ । वृष्णे॑ । तत् । इत् । ए॒षः । व॒ष्टि॒ ॥
Mantra 2
अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षम्। तस्मा॑ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इन्द्रो॑ अर्हति पी॒तिम॑स्य॥
अध्व॑र्यवः । यः । अ॒पः । व॒व्रि॒वांस॑म् । वृ॒त्रम् । ज॒घान॑ । अ॒शन्या॑ऽइव । वृ॒क्षम् । तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शाय॑ । ए॒षः । इन्द्रः॑ । अ॒र्ह॒ति॒ । पी॒तिम् । अ॒स्य॒ ॥
Mantra 3
अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि ब॒लं वः। तस्मा॑ ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः॑॥
अध्व॑र्यवः । यः । दृभी॑कम् । ज॒घान॑ । यः । गाः । उ॒त्ऽआज॑त् । अप॑ । हि । व॒लम् । वरिति॒ वः । तस्मै॑ । ए॒तम् । अ॒न्तरि॑क्षे । न । वात॑म् । इन्द्र॑म् । सोमैः॒ । आ । ऊ॒र्णु॒त॒ । जूः । न । वस्त्रैः॑ ॥
Mantra 4
अध्व॑र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं॑ नव॒तिं च॑ बा॒हून्। यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत॥
अध्व॑र्यवः । यः । उर॑णम् । ज॒घान॑ । नव॑ । च॒ख्वांस॑म् । न॒व॒तिम् । च॒ । बा॒हून् । यः । अर्बु॑दम् । अव॑ । नी॒चा । ब॒बा॒धे । तम् । इन्द्र॑म् । सोम॑स्य । भृ॒थे । हि॒नो॒त॒ ॥
Mantra 5
अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सम्। यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध॑सो जुहोत॥
अध्व॑र्यवः । यः । सु । अश्न॑म् । ज॒घान॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । यः । विऽअं॑सम् । यः । पिप्रु॑म् । नमु॑चिम् । यः । रु॒धि॒ऽक्राम् । तस्मै॑ । इन्द्रा॑य । अन्ध॑सः । जु॒हो॒त॒ ॥
Mantra 6
अध्व॑र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो॑ बि॒भेदाश्म॑नेव पू॒र्वीः। यो व॒र्चिनः॑ श॒तमिन्द्रः॑ स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै॥
अध्व॑र्यवः । यः । श॒तम् । शम्ब॑रस्य । पुरः॑ । बि॒भेद॑ । अश्म॑नाऽइव । पू॒र्वीः । यः । व॒र्चिनः॑ । श॒तम् । इन्द्रः॑ । स॒हस्र॑म् । अ॒पऽअव॑पत् । भर॑त॒ । सोम॑म् । अ॒स्मै॒ ॥
Mantra 7
अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान्। कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै॥
अध्व॑र्यवः । यः । श॒तम् । आ । स॒हस्र॑म् । भूम्याः॑ । उ॒पऽस्थे॑ । अव॑पत् । ज॒घ॒न्वान् । कुत्स॑स्य । आ॒योः । अ॒ति॒थि॒ऽग्वस्य॑ । वी॒रान् । नि । अवृ॑णक् । भर॑त॒ । सोम॑म् । अ॒स्मै॒ ॥
Mantra 8
अध्व॑र्यवो॒ यन्न॑रः का॒मया॑ध्वे श्रु॒ष्टी वह॑न्तो नशथा॒ तदिन्द्रे॑। गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा॑य॒ सोमं॑ यज्यवो जुहोत॥
अध्व॑र्यवः । यत् । न॒रः॒ । का॒मया॑ध्वे । श्रु॒ष्टी । वह॑न्तः । न॒श॒थ॒ । तत् । इन्द्रे॑ । गभ॑स्तिऽपूतम् । भ॒र॒त॒ । श्रु॒ताय॑ । इन्द्रा॑य॒ । सोम॑म् । य॒ज्य॒वः॒ । जु॒हो॒त॒ ॥
Mantra 9
अध्व॑र्यवः॒ कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू॑तं॒ वन॒ उन्न॑यध्वम्। जु॒षा॒णो हस्त्य॑म॒भि वा॑वशे व॒ इन्द्रा॑य॒ सोमं॑ मदि॒रं जु॑होत॥
अध्व॑र्यवः । कर्त॑न । श्रु॒ष्टिम् । अ॒स्मै॒ । वने॑ । निऽपू॑तम् । वने॑ । उत् । न॒य॒ध्व॒म् । जु॒षा॒णः । हस्त्य॑म् । अ॒भि । वा॒व॒शे॒ । वः॒ । इन्द्रा॑य॒ । सोम॑म् । मदि॒रम् । जु॒हो॒त॒ ॥
Mantra 10
अध्व॑र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म्। वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्स॑न्तं॒ भूयो॑ यज॒तश्चि॑केत॥
अध्व॑र्यवः । पय॑सा । ऊधः॑ । यथा॑ । गोः । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् । वेद॑ । अ॒हम् । अ॒स्य॒ । निऽभृ॑तम् । मे॒ । ए॒तत् । दित्स॑न्तम् । भूयः॑ । य॒ज॒तः । चि॒के॒त॒ ॥
Mantra 11
अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑। तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु॥
अध्व॑र्यवः । यः । दि॒व्यस्य॑ । वस्वः॑ । यः । पार्थि॑वस्य । क्षम्य॑स्य । राजा॑ । तम् । ऊर्द॑रम् । न । पृ॒ण॒त॒ । यवे॑न । इन्द्र॑म् । सोमे॑भिः । तत् । अपः॑ । वः॒ । अ॒स्तु॒ ॥
Mantra 12
अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म्। इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् । इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥