Mantra 1
ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते। तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्य॑म्॥
ऋ॒तुः । जनि॑त्री । तस्याः॑ । अ॒पः । परि॑ । म॒क्षु । जा॒तः । आ । अ॒वि॒श॒त् । यासु॑ । वर्ध॑ते । तत् । आ॒ह॒नाः । अ॒भ॒व॒त् । पि॒प्युषी॑ । पयः॑ । अं॒शोः । पी॒यूष॑म् । प्र॒थ॒मम् । तत् । उ॒क्थ्य॑म् ॥
Mantra 2
स॒ध्रीमा य॑न्ति॒ परि॒ बिभ्र॑तीः॒ पयो॑ वि॒श्वप्स्न्या॑य॒ प्र भ॑रन्त॒ भोज॑नम्। स॒मा॒नो अध्वा॑ प्र॒वता॑मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑॥
स॒ध्री । ई॒म् । आ । य॒न्ति॒ । परि॑ । बिभ्र॑तीः । पयः॑ । वि॒श्वऽप्स्न्या॑य । प्र । भ॒र॒न्त॒ । भोज॑नम् । स॒मा॒नः । अध्वा॑ । प्र॒ऽवता॑म् । अ॒नु॒ऽस्यदे॑ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 3
अन्वेको॑ वदति॒ यद्ददा॑ति॒ तद्रू॒पा मि॒नन्तद॑पा॒ एक॑ ईयते। विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑॥
अनु॑ । एकः॑ । व॒द॒ति॒ । यत् । ददा॑ति । तत् । रू॒पा । मि॒नन् । तत्ऽअ॑पाः । एकः॑ । ई॒य॒ते॒ । विश्वाः॑ । एक॑स्य । वि॒ऽनुदः॑ । ति॒ति॒क्ष॒ते॒ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 4
प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भज॑न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव॑न्तमाय॒ते। असि॑न्व॒न्दंष्ट्रैः॑ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑॥
प्र॒ऽजाभ्यः॑ । पु॒ष्टिम् । वि॒ऽभज॑न्तः । आ॒स॒ते॒ । र॒यिम्ऽइ॑व । पृ॒ष्ठम् । प्र॒ऽभव॑न्तम् । आ॒ऽय॒ते । असि॑न्वन् । दंष्ट्रैः॑ । पि॒तुः । अ॒त्ति॒ । भोज॑नम् । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 5
अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक्प॒थः। तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒न्त्सास्यु॒क्थ्यः॑॥
अध॑ । अ॒कृ॒णोः॒ । पृ॒थि॒वीम् । स॒म्ऽदृशे॑ । दि॒वे । यः । धौ॒ती॒नाम् । अ॒हि॒ऽह॒न् । अरि॑णक् । प॒थः । तम् । त्वा॒ । स्तोमे॑भिः । उ॒दऽभिः॑ । न । वा॒जिन॑म् । दे॒वम् । दे॒वाः । अ॒ज॒न॒न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 6
यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ। स शे॑व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑॥
यः । भोज॑नम् । च॒ । दय॑से । च॒ । वर्ध॑नम् । आ॒र्द्रात् । आ । शुष्क॑म् । मधु॑ऽमत् । दु॒दोहि॑थ । सः । शे॒व॒धिम् । नि । द॒धि॒षे॒ । वि॒वस्व॑ति । विश्व॑स्य । एकः॑ । ई॒शि॒षे॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 7
यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒॑वनी॒रधा॑रयः। यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भितः॒ सास्यु॒क्थ्यः॑॥
यः । पु॒ष्पिणीः॑ । च॒ । प्र॒ऽस्वः॑ । च॒ । धर्म॑णा । अधि॑ । दाने॑ । वि । अ॒वनीः॑ । अधा॑रयः । यः । च॒ । अस॑माः । अज॑नः । दि॒द्युतः॑ । दि॒वः । उ॒रुः । ऊ॒र्वान् । अ॒भितः॑ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 8
यो ना॑र्म॒रं स॒हव॑सुं॒ निह॑न्तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः। ऊ॒र्जय॑न्त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑॥
यः । ना॒र्म॒रम् । स॒हऽव॑सुम् । निऽह॑न्तवे । पृ॒क्षाय॑ । च॒ । दा॒सऽवे॑शाय॒ । च॒ । अव॑हः । ऊ॒र्जय॑न्त्याः । अप॑रिऽविष्टम् । आ॒स्य॑म् । उ॒त । ए॒व । अ॒द्य । पु॒रु॒ऽकृ॒त् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 9
श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ। अ॒र॒ज्जौ दस्यू॒न्त्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो॑ अभवः॒ सास्यु॒क्थ्यः॑॥
श॒तम् । वा॒ । यस्य॑ । दश॑ । सा॒कम् । आ । अद्यः॑ । एक॑स्य । श्रु॒ष्टौ । यत् । ह॒ । चो॒दम् । आवि॑थ । अ॒र॒ज्जौ । दस्यू॑न् । सम् । उ॒न॒प् । द॒भीत॑ये । सु॒प्र॒ऽअ॒व्यः॑ । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 10
विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन॑म्। षळ॑स्तभ्ना वि॒ष्टिरः॒ पञ्च॑ सं॒दृशः॒ परि॑ प॒रो अ॑भवः॒ सास्यु॒क्थ्यः॑॥
विश्वा॑ । इत् । अनु॑ । रो॒ध॒नाः । अ॒स्य॒ । पौंस्य॑म् । द॒दुः । अ॒स्मै॒ । द॒धि॒रे । कृ॒त्नवे॑ । धन॑म् । षट् । अ॒स्त॒भ्नाः॒ । वि॒ऽस्तिरः॑ । पञ्च॑ । स॒म्ऽदृशः॑ । परि॑ । प॒रः । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 11
सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं१॒॑ यदेके॑न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑। जा॒तूष्ठि॑रस्य॒ प्र वयः॒ सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा॑स्यु॒क्थ्यः॑॥
सु॒ऽप्र॒वा॒च॒नम् । तव॑ । वी॒र॒ । वी॒र्य॑म् । यत् । एके॑न । क्रतु॑ना । वि॒न्दसे॑ । वसु॑ । जा॒तूऽस्थि॑रस्य । प्र । वयः॑ । सह॑स्वतः । या । च॒कर्थ॑ । सः । इ॒न्द्र॒ । विश्वा॑ । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 12
अर॑मयः॒ सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिम्। नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्त्सास्यु॒क्थ्यः॑॥
अर॑मयः । सर॑ऽअपसः । तरा॑य । कम् । तु॒र्वीत॑ये । च॒ । व॒य्या॑य । च॒ । स्रु॒तिम् । नी॒चा । सन्त॑म् । उत् । अ॒न॒यः॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । श्र॒वय॑न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
Mantra 13
अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म्। इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् । इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥