Mantra with Swara
स हि क्रतुः॒ स मर्यः॒ स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः। तं मेधे॑षु प्रथ॒मं दे॑व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारीः॑ ॥
सः । हि । क्रतुः॑ । सः । मर्यः॑ । सः । सा॒धुः । मि॒त्रः । न । भू॒त् । अद्भु॑तस्य । र॒थीः । तम् । मेधे॑षु । प्र॒थ॒मम् । दे॒व॒ऽयन्तीः । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । द॒स्मम् । आरीः॑ ॥
Mantra without Swara
स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः। तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥
सः। हि। क्रतुः। सः। मर्यः। सः। साधुः। मित्रः। न। भूत्। अद्भुतस्य। रथीः। तम्। मेधेषु। प्रथमम्। देवऽयन्तीः। विशः। उप। ब्रुवते। दस्मम्। आरीः ॥
Ashtak » 1
Adhyay » 5
Varga » 25
Mantra » 3
