Mantra 1
न्यू॒३॒॑षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः। नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥
नि । ऊँ॒ इति॑ । सु । वाच॑म् । प्र । म॒हे । भ॒रा॒म॒हे॒ । गिरः॑ । इन्द्रा॑य । सद॑ने । वि॒वस्व॑तः । नु । चि॒त् । हि । रत्न॑म् । स॒स॒ताम्ऽइ॑व । अवि॑दत् । न । दुः॒ऽस्तु॒तिः । द्र॒वि॒णः॒ऽदेषु॑ । श॒स्य॒ते॒ ॥
Mantra 2
दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑। शि॒क्षा॒न॒रः प्र॒दिवो॒ अका॑मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ॥
दु॒रः । अश्व॑स्य । दु॒रः । इ॒न्द्र॒ । गोः । अ॒सि॒ । दु॒रः । यव॑स्य । वसु॑नः । इ॒नः । पतिः॑ । शि॒क्षा॒ऽन॒रः । प्र॒ऽदिवः॑ । अका॑मऽकर्शनः । सखा॑ । सखि॑ऽभ्यः । तम् । इ॒दम् । गृ॒णी॒म॒सि॒ ॥
Mantra 3
शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑। अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥
शची॑ऽवः । इ॒न्द्र॒ । पु॒रु॒ऽकृ॒त् । द्यु॒म॒त्ऽत॒म॒ । तव॑ । इत् । इ॒दम् । अ॒भितः॑ । चे॒कि॒ते॒ । वसु॑ । अतः॑ । स॒म्ऽगृभ्य॑ । अ॒भि॒ऽभू॒ते॒ । आ । भ॒र॒ । मा । त्वा॒ऽय॒तः । ज॒रि॒तुः । काम॑म् । ऊ॒न॒यीः॒ ॥
Mantra 4
ए॒भिर्द्युभिः॑ सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑। इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः॒ समि॒षा र॑भेमहि ॥
ए॒भिः । द्युभिः॑ । सु॒ऽमनाः॑ । ए॒भिः । इन्दु॑ऽभिः । निः॒ऽउ॒न्धा॒नः । अम॑तिम् । गोभिः॑ । अ॒श्विना॑ । इन्द्रे॑ण । दस्यु॑म् । द॒रय॑न्तः । इन्दु॑ऽभिः । यु॒तऽद्वे॑षसः । सम् इ॒षा । र॒भे॒म॒हि॒ ॥
Mantra 5
समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः। सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गोअ॑ग्र॒याश्वा॑वत्या रभेमहि ॥
सम् । इ॒न्द्र॒ । रा॒या । सम् । इ॒षा । र॒भे॒म॒हि॒ । सम् । वाजे॑भिः । पु॒रु॒ऽच॒न्द्रैः । अ॒भिद्यु॑ऽभिः । सम् । दे॒व्या । प्रऽम॑त्या । वी॒रऽशु॑ष्मया । गोऽअ॑ग्रया । अश्व॑ऽवत्या । र॒भे॒म॒हि॒ ॥
Mantra 6
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते। यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥
ते । त्वा॒ । मदाः॑ । अ॒म॒द॒न् । तानि॑ । वृष्ण्या॑ । ते । सोमा॑सः । वृ॒त्र॒ऽहत्ये॑षु । स॒त्ऽप॒ते॒ । यत् । का॒रवे॑ । दश॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ब॒र्हिष्म॑ते । नि । स॒हस्रा॑णि । ब॒र्हयः॑ ॥
Mantra 7
यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा। नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ॥
यु॒धा । युध॑म् । उप॑ । घ॒ । इत् । ए॒षि॒ । धृ॒श्णु॒ऽया । पु॒रा । पुर॑म् । सम् । इ॒दम् । हं॒सि॒ । ओज॑सा । नम्या॑ । यत् । इ॒न्द्र॒ । सख्या॑ । प॒रा॒ऽवति॑ । नि॒ऽब॒र्हयः॑ । नमु॑च्म् । नाम॑ । मा॒यिन॑म् ॥
Mantra 8
त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी। त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥
त्वम् । कर॑ञ्जम् । उ॒त । प॒र्णय॑म् । व॒धीः॒ । तेजि॑ष्ठया । अ॒ति॒थि॒ऽग्वस्य॑ । व॒र्त॒नी । त्वम् । श॒ता । वङ्गृ॑दस्य । अ॒भि॒न॒त् । पुरः॑ । अ॒न॒नु॒ऽदः । परि॑ऽसूताः । ऋ॒जिश्व॑ना ॥
Mantra 9
त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑। ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ॥
त्वम् । ए॒तान् । ज॒न॒ऽराज्ञः॑ । द्विः । दश॑ । अ॒ब॒न्धुना॑ । सु॒ऽश्रव॑सा । उ॒प॒ऽज॒ग्मुषः॑ । ष॒ष्टिम् । स॒हस्रा॑ । न॒व॒तिम् । नव॑ । श्रु॒तः । नि । च॒क्रेण॑ । रथ्या॑ । दुः॒ऽपदा॑ । अ॒वृ॒ण॒क् ॥
Mantra 10
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम्। त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥
त्वम् । आ॒वि॒थ॒ । सु॒ऽश्रव॑सम् । तव॑ । ऊ॒तिऽभिः॑ । तव॑ । त्राम॑ऽभिः । इ॒न्द्र॒ । तूर्व॑याणम् । त्वम् । अ॒स्मै॒ । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । आ॒युम् । म॒हे । राज्ञे॑ । यूने॑ । अ॒र॒न्ध॒ना॒यः॒ ॥
Mantra 11
य उ॒दृची॑न्द्र दे॒वगो॑पाः॒ सखा॑यस्ते शि॒वत॑मा॒ असा॑म। त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥
ये । उ॒त्ऽऋचि॑ । इ॒न्द्र॒ । दे॒वऽगो॑पाः । सखा॑यः । ते॒ । शि॒वऽत॑माः । असा॑म । त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥