Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Rigveda Mandal 1 / Sukta 189 / Mantra 8

191 Sukta
8 Mantra
1/189/8
Devata- अग्निः Rishi- अगस्त्यः Chhanda- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ। व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

अवो॑चाम । नि॒ऽवच॑नानि । अ॒स्मि॒न् । मान॑स्य । सू॒नुः । स॒ह॒सा॒ने । अ॒ग्नौ । व॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । स॒ने॒म॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Mantra without Swara
अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ। वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥

अवोचाम। निऽवचनानि। अस्मिन्। मानस्य। सूनुः। सहसाने। अग्नौ। वयम्। सहस्रम्। ऋषिऽभिः। सनेम। विद्याम। इषम्। वृजनम्। जीरऽदानुम् ॥ १.१८९.८

Ashtak » 2 Adhyay » 5 Varga » 11 Mantra » 3

Available Bhashyas

1 Bhashyas
Meaning
हे मनुष्यो ! जो (मानस्य) विज्ञानवान् जन का (सूनुः) सन्तान है उसके प्रति (अस्मिन्) इस (सहसाने) सहन करते हुए (अग्नौ) अग्नि के समान विद्वान् के निमित्त (निवचनानि) परीक्षा से निश्चित किये वचनों को जैसे (वयम्) हम लोग (अवोचाम) उपदेश करें वा (ऋषिभिः) वेदार्थ के जाननेवालों से (सहस्रम्) असंख्य सुख का (सनेम) सेवन करें वा (इषम्) इच्छासिद्धि (वृजनम्) बल और (जीरदानुम्) जीवन को (विद्याम) प्राप्त होवें वैसा तुम भी आचरण करो ॥ ८ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथाप्ताः शान्ता उपदेष्टारः श्रोतृभ्यः सत्यान्युपदिश्य सुखिनः कुर्वन्ति तैः सहान्ये विद्वांसो जायन्ते तथोपदिश्य श्रुत्वा विद्यावृद्धिं सर्वे कुर्वन्तु ॥ ८ ॥अस्मिन् सूक्ते परमेश्वरविद्वच्छासकगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥इत्येकोननवत्युत्तरं शततमं सूक्तमेकादशो वर्गश्च समाप्तः ॥ अस्मिन् सूक्ते परमेश्वरविद्वच्छासकगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥इत्येकोननवत्युत्तरं शततमं सूक्तमेकादशो वर्गश्च समाप्तः ॥
Subject
फिर उसी विषय को अगले मन्त्र में कहा है ।