Mantra 1
क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वय॒: को वि वे॑द। विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥
क॒त॒रा । पूर्वा॑ । क॒त॒रा । अप॑रा । अ॒योः । क॒था । जा॒ते इति॑ । क॒व॒यः॒ । कः । वि । वे॒द॒ । विश्व॑म् । त्मना॑ । बि॒भृ॒तः॒ । यत् । ह॒ । नाम॑ । वि । व॒र्ते॒ते॒ । अह॑नी॒ इति॑ । च॒क्रिया॑ऽइव ॥
Mantra 2
भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी॑ दधाते। नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
भूरि॑ । द्वे इति॑ । अच॑रन्ती॒ इति॑ । चर॑न्तम् । प॒त्ऽवन्तम् । गर्भ॑म् । अ॒पदी॒ इति॑ । द॒धा॒ते॒ इति॑ । नित्य॑म् । न । सू॒नुम् । पि॒त्रोः । उ॒पऽस्थे॑ । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
Mantra 3
अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत्। तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
अ॒ने॒हः । दा॒त्रम् । अदि॑तेः । अ॒न॒र्वम् । हु॒वे । स्वः॑ऽवत् । अ॒व॒धम् । नम॑स्वत् । तत् । रो॒द॒सी॒ इति॑ । ज॒न॒य॒त॒म् । ज॒रि॒त्रे । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
Mantra 4
अत॑प्यमाने॒ अव॒साव॑न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे। उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
अत॑प्यमाने॒ इति॑ । अव॑सा । अव॑न्ती॒ इति॑ । अनु॑ । स्या॒म॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । उ॒भे इति॑ । दे॒वाना॑म् । उ॒भये॑भिः । अह्ना॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
Mantra 5
सं॒गच्छ॑माने युव॒ती सम॑न्ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑। अ॒भि॒जिघ्र॑न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
स॒ङ्गच्छ॑माने॒ इति॑ स॒म्ऽगच्छ॑माने । यु॒व॒ती इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । स्वसा॑रा । जा॒मी इति॑ । पि॒त्रोः । उ॒पऽस्थे॑ । अ॒भि॒जिघ्र॑न्ती॒ इत्य॑भि॒ऽजिघ्र॑न्ती । भुव॑नस्य । नाभि॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
Mantra 6
उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री। द॒धाते॒ ये अ॒मृतं॑ सु॒प्रती॑के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
उ॒र्वी इति॑ । सद्म॑नी॒ इति॑ । बृ॒ह॒ती इति॑ । ऋ॒तेन॑ । हु॒वे । दे॒वाना॑म् । अव॑सा । जनि॑त्री॒ इति॑ । द॒धाते॑ । ये । अ॒मृत॑म् । सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
Mantra 7
उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअ॑न्ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन्। द॒धाते॒ ये सु॒भगे॑ सु॒प्रतू॑र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । दू॒रेअ॑न्ते॒ इति॑ दू॒रेऽअ॑न्ते । उप॑ । ब्रु॒वे॒ । नम॑सा । य॒ज्ञे । अ॒स्मिन् । द॒धाते॒ इति॑ । ये इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । सु॒प्रतू॑र्ती॒ इति॑ सु॒ऽप्रतू॑र्ती । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त्॥
Mantra 8
दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दाग॒: सखा॑यं वा॒ सद॒मिज्जास्प॑तिं वा। इ॒यं धीर्भू॑या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
दे॒वान् । वा॒ । यत् । च॒कृ॒म । कत् । चि॒त् । आगः॑ । सखा॑यम् । वा॒ । सद॑म् । इत् । जाःऽप॑तिम् । वा॒ । इ॒यम् । धीः । भू॒याः॒ । अ॒व॒ऽयान॑म् । एषा॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥
Mantra 9
उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती अव॑सा सचेताम्। भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मद॑न्त इषयेम देवाः ॥
उ॒भा । शंसा॑ । नर्या॑ । माम् । अ॒वि॒ष्टा॒म् । उ॒भे इति॑ । माम् । ऊ॒ती इति॑ । अव॑सा । स॒चे॒ता॒म् । भूरि॑ । चि॒त् । अ॒र्यः । सु॒दाःऽत॑राय । इ॒षा । मद॑न्तः । इ॒ष॒ये॒म॒ । दे॒वाः॒ ॥
Mantra 10
ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः। पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके॑ पि॒ता मा॒ता च॑ रक्षता॒मवो॑भिः ॥
ऋ॒तम् । दि॒वे । तत् । अ॒वो॒च॒म् । पृ॒थि॒व्यै । अ॒भि॒ऽश्रा॒वाय॑ । प्र॒थ॒मम् । सु॒ऽमे॒धाः । पा॒ताम् । अ॒व॒द्यात् । दुः॒ऽइ॒तात् । अ॒भीके॑ । पि॒ता । मा॒ता । च॒ । र॒क्ष॒ता॒म् । अवः॑ऽभिः ॥
Mantra 11
इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा॑म्। भू॒तं दे॒वाना॑मव॒मे अवो॑भिर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
इ॒दम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । स॒त्यम् । अ॒स्तु॒ । पितः॑ । मातः॑ । यत् । इ॒ह । उ॒प॒ऽब्रु॒वे । वा॒म् । भू॒तम् । दे॒वाना॑म् । अ॒व॒मे इति॑ । अवः॑ऽभिर् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥