Mantra with Swara
आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त्। आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
आवः॑ । यस्य॑ । द्वि॒ऽबर्ह॑सः । अ॒र्केषु॑ । सा॒नु॒षक् । अस॑त् । आ॒जौ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥
Mantra without Swara
आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत्। आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥
आवः। यस्य। द्विऽबर्हसः। अर्केषु। सानुषक्। असत्। आजौ। इन्द्रस्य। इन्दो इति। प्र। आवः। वाजेषु। वाजिनम् ॥ १.१७६.५
Ashtak » 2
Adhyay » 4
Varga » 19
Mantra » 5
