Mantra 1
गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत्। गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥
गाय॑त् । साम॑ । न॒भ॒न्य॑म् । यथा॑ । वेः । अर्चा॑म । तत् । व॒वृ॒धा॒नम् । स्वः॑ऽवत् । गावः॑ । धे॒नवः॑ । ब॒र्हिषि॑ । अद॑ब्धाः । आ । यत् । स॒द्मान॑म् । दि॒व्यम् । विवा॑सान् ॥
Mantra 2
अर्च॒द्वृषा॒ वृष॑भि॒: स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात्। प्र म॑न्द॒युर्म॒नां गू॑र्त॒ होता॒ भर॑ते॒ मर्यो॑ मिथु॒ना यज॑त्रः ॥
अर्च॒त् । वृषा॑ । वृष॑ऽभिः । स्वऽइदु॑हव्यैः । मृ॒गः । न । अश्नः॑ । अति॑ । यत् । जु॒गु॒र्यात् । प्र । म॒न्द॒युः । म॒नाम् । गू॒र्त॒ । होता॑ । भर॑ते । मर्यः॑ । मि॒थु॒ना । यज॑त्रः ॥
Mantra 3
नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रद॑: पृथि॒व्याः। क्रन्द॒दश्वो॒ नय॑मानो रु॒वद्गौर॒न्तर्दू॒तो न रोद॑सी चर॒द्वाक् ॥
नक्ष॑त् । होता॑ । परि॑ । सद्म॑ । मि॒ता । यन् । भर॑त् । गर्भ॑म् । आ । श॒रदः॑ । पृ॒थि॒व्याः । क्रन्द॑त् । अश्वः॑ । नय॑मानः । रु॒वत् । गौः । अ॒न्तः । दू॒तः । न । रोद॑सी॒ इति॑ । च॒र॒त् । वाक् ॥
Mantra 4
ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो॑ भरन्ते। जुजो॑ष॒दिन्द्रो॑ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो॑ रथे॒ष्ठाः ॥
ता । क॒र्म॒ । अष॑ऽतरा । अ॒स्मै॒ । प्र । च्यौ॒त्नानि॑ । दे॒व॒ऽयन्तः॑ । भ॒र॒न्ते॒ । जुजो॑षत् । इन्द्रः॑ । द॒स्मऽव॑र्चाः । नास॑त्याऽइव । सुग्म्यः॑ । र॒थे॒ऽस्थाः ॥
Mantra 5
तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो॑ म॒घवा॒ यो र॑थे॒ष्ठाः। प्र॒ती॒चश्चि॒द्योधी॑या॒न्वृष॑ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ॥
तम् । उँ॒म् इति॑ । स्तु॒हि॒ । इन्द्र॑म् । यः । ह॒ । सत्वा॑ । यः । शूरः॑ । म॒घवा॑ । यः । र॒थे॒ऽस्थाः । प्र॒ती॒चः । चि॒त् । योधी॑यान् । वृष॑ण्ऽवान् । व॒व॒व्रुषः॑ । चि॒त् । तम॑सः । वि॒ऽह॒न्ता ॥
Mantra 6
प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॒॑ नास्मै॑। सं वि॑व्य॒ इन्द्रो॑ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ॑ ओप॒शमि॑व॒ द्याम् ॥
प्र । यत् । इ॒त्था । म॒हि॒ना । नृऽभ्यः॑ । अस्ति॑ । अर॑म् । रोद॑सी॒ इति॑ । क॒क्ष्ये॒ इति॑ । न । अ॒स्मै॒ । सम् । वि॒व्ये॒ । इन्द्रः॑ । वृ॒जन॑म् । न । भूम॑ । भर्ति॑ । स्व॒धाऽवा॑न् । ओ॒प॒शम्ऽइ॑व । द्याम् ॥
Mantra 7
स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिन्त॑मं परितंस॒यध्यै॑। स॒जोष॑स॒ इन्द्रं॒ मदे॑ क्षो॒णीः सू॒रिं चि॒द्ये अ॑नु॒मद॑न्ति॒ वाजै॑: ॥
स॒मत्ऽसु॑ । त्वा॒ । शू॒र॒ । स॒ताम् । उ॒रा॒णम् । प्र॒प॒थिन्ऽत॑मम् । प॒रि॒ऽतं॒स॒यध्यै॑ । स॒जोष॑सः । इन्द्र॑म् । मदे॑ । क्षो॒णीः । सू॒रिम् । चि॒त् । ये । अ॒नु॒ऽमद॑न्ति । वाजैः॑ ॥
Mantra 8
ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद॑न्ति दे॒वीः। विश्वा॑ ते॒ अनु॒ जोष्या॑ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ॥
ए॒व । हि । ते॒ । शम् । सव॑ना । स॒मु॒द्रे । आपः॑ । यत् । ते॒ । आ॒सु । मद॑न्ति । दे॒वीः । विश्वा॑ । ते॒ । अनु॑ । जोष्या॑ । भू॒त् । गौः । सू॒रीन् । चि॒त् । यदि॑ । धि॒षा । वेषि॑ । जना॑न् ॥
Mantra 9
असा॑म॒ यथा॑ सुष॒खाय॑ एन स्वभि॒ष्टयो॑ न॒रां न शंसै॑:। अस॒द्यथा॑ न॒ इन्द्रो॑ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ॥
असा॑म । यथा॑ । सु॒ऽस॒खायः॑ । ए॒न॒ । सु॒ऽअ॒भि॒ष्टयः॑ । न॒राम् । न । शंसैः॑ । अस॑त् । यथा॑ । नः॒ । इन्द्रः॑ । व॒न्द॒ने॒ऽस्थाः । तु॒रः । न । कर्म॑ । नय॑मानः । उ॒क्था ॥
Mantra 10
विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिन्द्रो॒ वज्र॑हस्तः। मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ॥
विऽस्प॑र्धसः । न॒राम् । न । शंसैः॑ । अ॒स्माक॑ । अ॒स॒त् । इन्द्रः॑ । वज्र॑ऽहस्तः । मि॒त्र॒ऽयुवः॑ । न । पूःऽप॑तिम् । सुऽशि॑श्टौ । म॒ध्य॒ऽयुवः॑ । उप॑ । शि॒क्ष॒न्ति॒ । य॒ज्ञैः ॥
Mantra 11
य॒ज्ञो हि ष्मेन्द्रं॒ कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन्। ती॒र्थे नाच्छा॑ तातृषा॒णमोको॑ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा॑ ॥
य॒ज्ञः । हि । स्म॒ । इन्द्र॑म् । कः । चि॒त् । ऋ॒न्धन् । जु॒हु॒र्ता॒णः । चि॒त् । मन॑सा । प॒रि॒ऽयन् । ती॒र्थे । न । अच्छ॑ । त॒तृ॒षा॒णम् । ओकः॑ । दी॒र्घः । न । सि॒ध्रम् । आ । कृ॒णो॒ति॒ । अध्वा॑ ॥
Mantra 12
मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः। म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥
मो इति॑ । सु । नः॒ । इ॒न्द्र॒ । अत्र॑ । पृ॒त्ऽसु । दे॒वैः । अस्ति॑ । हि । स्म॒ । ते॒ । शु॒ष्मि॒न् । अ॒व॒ऽयाः । म॒हः । चि॒त् । यस्य॑ । मी॒ळ्हुषः॑ । य॒व्या । ह॒विष्म॑तः । म॒रुतः॑ । वन्द॑ते । गीः ॥
Mantra 13
ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः। आ नो॑ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
ए॒षः । स्तोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । अ॒स्मे इति॑ । ए॒तेन॑ । गा॒तुम् । ह॒रि॒ऽवः॒ । वि॒दः॒ । नः॒ । आ । नः॒ । व॒वृ॒त्याः॒ । सु॒वि॒ताय॑ । दे॒व॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥