Mantra 1
य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं॑धियं वो देव॒या उ॑ दधिध्वे। आ वो॒ऽर्वाच॑: सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभि॑: ॥
य॒ज्ञाऽय॑ज्ञा । वः॒ । स॒म॒ना । तु॒तु॒र्वणिः॑ । धिय॑म्ऽधियम् । वः॒ । दे॒व॒ऽयाः । ऊँ॒ इति॑ । द॒धि॒ध्वे॒ । आ । वः॒ । अ॒र्वाचः॑ । सु॒वि॒ताय॑ । रोद॑स्योः । म॒हे । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥
Mantra 2
व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जाय॑न्त॒ धूत॑यः। स॒ह॒स्रिया॑सो अ॒पां नोर्मय॑ आ॒सा गावो॒ वन्द्या॑सो॒ नोक्षण॑: ॥
व॒व्रासः॑ । न । ये । स्व॒ऽजाः । स्वऽत॑वसः । इष॑म् । स्वः॑ । अ॒भि॒ऽजाय॑न्त । धूत॑यः । स॒ह॒स्रिया॑सः । अ॒पाम् । न । ऊ॒र्मयः॑ । आ॒सा । गावः॑ । वन्द्या॑सः । न । उ॒क्षणः॑ ॥
Mantra 3
सोमा॑सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो॑ दु॒वसो॒ नास॑ते। ऐषा॒मंसे॑षु र॒म्भिणी॑व रारभे॒ हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ॥
सोमा॑सः । न । ये । सु॒ताः । तृ॒प्तऽअं॑शवः । हृ॒त्ऽसु । पी॒तासः॑ । दु॒वसः॑ । न । आस॑ते । आ । ए॒षा॒म् । अंसे॑षु । र॒म्भिणी॑ऽइव । र॒र॒भे॒ । हस्ते॑षु । खा॒दिः । च॒ । कृ॒तिः । च॒ । सम् । द॒धे॒ ॥
Mantra 4
अव॒ स्वयु॑क्ता दि॒व आ वृथा॑ ययु॒रम॑र्त्या॒: कश॑या चोदत॒ त्मना॑। अ॒रे॒णव॑स्तुविजा॒ता अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ॥
अव॑ । स्वऽयु॑क्ताः । दि॒वः । आ । वृथा॑ । य॒युः॒ । अम॑र्त्याः । कश॑या । चो॒द॒त॒ । त्मना॑ । अ॒रे॒णवः॑ । तु॒वि॒ऽजा॒ताः । अ॒चु॒च्य॒वुः॒ । दृ॒ळ्हानि॑ । चि॒त् । म॒रुतः॑ । भ्राज॑द्ऽऋष्टयः ॥
Mantra 5
को वो॒ऽन्तर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे॑व जि॒ह्वया॑। ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा॑ अह॒न्यो॒३॒॑ नैत॑शः ॥
कः । वः॒ । अ॒न्तः । म॒रु॒तः॒ । ऋ॒ष्टि॒ऽवि॒द्यु॒तः॒ । रेज॑ति । त्मना॑ । हन्वा॑ऽइव । जि॒ह्वया॑ । ध॒न्व॒ऽच्युतः॑ । इ॒षाम् । न । याम॑नि । पु॒रु॒ऽप्रैषाः॑ । अ॒ह॒न्यः॑ । न । एत॑शः ॥
Mantra 6
क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि॑न्नाय॒य। यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम॑र्ण॒वम् ॥
क्व॑ । स्वि॒त् । अ॒स्य । रज॑सः । म॒हः । पर॑म् । क्व॑ । अव॑रम् । म॒रु॒तः॒ । यस्मि॑न् । आ॒ऽय॒य । यत् । च्य॒वय॑थ । वि॒थु॒राऽइ॑व । सम्ऽहि॑तम् । वि । अद्रि॑णा । प॒त॒थ॒ । त्वे॒षम् । अ॒र्ण॒वम् ॥
Mantra 7
सा॒तिर्न वोऽम॑वती॒ स्व॑र्वती त्वे॒षा विपा॑का मरुत॒: पिपि॑ष्वती। भ॒द्रा वो॑ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी॑ असु॒र्ये॑व॒ जञ्ज॑ती ॥
सा॒तिः । न । वः॒ । अम॑ऽवती । स्वः॑ऽवती । त्वे॒षा । विऽपा॑का । म॒रु॒तः॒ । पिपि॑ष्वती । भ॒द्रा । वः॒ । रा॒तिः । पृ॒ण॒तः । न । दक्षि॑णा । पृ॒थु॒ऽज्रयी॑ । असु॒र्या॑ऽइव । जञ्ज॑ती ॥
Mantra 8
प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय॑न्ति। अव॑ स्मयन्त वि॒द्युत॑: पृथि॒व्यां यदी॑ घृ॒तं म॒रुत॑: प्रुष्णु॒वन्ति॑ ॥
प्रति॑ । स्तो॒भ॒न्ति॒ । सिन्ध॑वः । प॒विऽभ्यः॑ । यत् । अ॒भ्रिया॑म् । वाच॑म् । उत्ऽई॒रय॑न्ति । अव॑ । स्म॒य॒न्त॒ । वि॒ऽद्युतः॑ । पृ॒थि॒व्याम् । यदि॑ । घृ॒तम् । म॒रुतः॑ । प्रु॒ष्णु॒वन्ति॑ ॥
Mantra 9
असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कम्। ते स॑प्स॒रासो॑ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥
असू॑त । पृश्निः॑ । म॒ह॒ते । रणा॑य । त्वे॒षम् । अ॒यासा॑म् । म॒रुता॑म् । अनी॑कम् । ते । स॒प्स॒रासः । अ॒ज॒न॒य॒न्त॒ । अभ्व॑म् । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥
Mantra 10
ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः। एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः । आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥