Mantra with Swara
ते सू॒नव॒: स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये। स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥
ते । सू॒नवः॑ । सु॒ऽअप॑सः । सु॒ऽदंस॑सः । म॒ही इति॑ । ज॒ज्ञुः॒ । मा॒तरा॑ । पू॒र्वऽचि॑त्तये । स्था॒तुः । च॒ । स॒त्यम् । जग॑तः । च॒ । धर्म॑णि । पु॒त्रस्य॑ । पाथः । प॒दम् । अद्व॑याविनः ॥
Mantra without Swara
ते सूनव: स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये। स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥
ते। सूनवः। सुऽअपसः। सुऽदंससः। मही इति। जज्ञुः। मातरा। पूर्वऽचित्तये। स्थातुः। च। सत्यम्। जगतः। च। धर्मणि। पुत्रस्य। पाथः। पदम्। अद्वयाविनः ॥ १.१५९.३
Ashtak » 2
Adhyay » 3
Varga » 2
Mantra » 3
