Mantra with Swara
उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम्। मा मामेधो॒ दश॑तयश्चि॒तो धा॒क्प्र यद्वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम् ॥
उप॑ऽस्तुतिः । औ॒च॒थ्यम् । उ॒रु॒ष्ये॒त् । मा । माम् । इ॒मे इति॑ । प॒त॒त्रिणी॒ इति॑ । वि । दु॒ग्धा॒म् । मा । माम् । एधः॑ । दश॑ऽतयः । चि॒तः । धा॒क् । प्र । यत् । वा॒म् । ब॒द्धः । त्मनि॑ । खाद॑ति । क्षाम् ॥
Mantra without Swara
उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम्। मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम् ॥
उपऽस्तुतिः। औचथ्यम्। उरुष्येत्। मा। माम्। इमे इति। पतत्रिणी इति। वि। दुग्धाम्। मा। माम्। एधः। दशऽतयः। चितः। धाक्। प्र। यत्। वाम्। बद्धः। त्मनि। खादति। क्षाम् ॥ १.१५८.४
Ashtak » 2
Adhyay » 3
Varga » 1
Mantra » 4
